________________
.श्रीहेमविजयजीगणिप्रणीता-स्तुतिचतुर्विंशतिका
३२५
अथ श्रीअनन्तजिनस्तुतिः ।
___+ १ ( मालिनीवृत्तम् ) जिनमनघमहं तं, नौमि कर्पूरपूरैः,
सततमलमनन्तं, योगिराजं समाऽऽनम् । अलममलमतीनां, मान्यया जेतुमत्राऽऽ३
स ततमलमनन्तं, यो गिराऽजं समानम् ॥१॥ कलुषमिह भवन्न-स्तीर्थकृत्वृन्द ! हृद्भू
रजनिपतितमो ह-न्त्याशु भावं दिताऽऽरम् । यतिततिरतिरम्या, प्राप्य यन्निर्जरौघै
रजनि पतितमोहं, त्वा शुभा वन्दिताऽरम् ॥ २ ॥ स्मर मनसि जिनानां, तं नयैर्दुःप्रवेशं,
पिहिततमसमाधि-प्राणनाशं कृतान्तम् । जगति गतिरना , ध्वंसमानेन येनाऽऽ४
पि हिततमसमाधि, प्राणनाऽशं कृतान्तम् ॥३॥ सुखय निखिललोके, देव ! देवीनिषेव्यां
___ कुशि ! वरतरनामा-तापदाना ! मदेहा !। व्यसनविसरजात-व्यासया व्याकुलं त्वं,
कुशिवरतमना ! मा-ताऽऽपदाऽनामदेहा ! ॥४॥
अथ धर्मनाथजिनस्तुतिः ।
___+ १ ( मालिनीवृत्तम् ) समुदि हृदि वहामि, त्वामहं धर्म! वज्र
ध्वज ! नवलसमानं, सुव्रताऽऽयं समोहम्। 1. कर्पूरतुल्यश्वासम् । २. अमलमतीनां-गणधराणाम् । ३. दिदीपे। ४. लब्धा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org