________________
: श्रीहेमविजयजीगणिप्रणीता-स्तुतिचतुर्विंशतिका
३२३
परिचितिमुचितश्री-शोभनानां जिनानां,
जनय १मदरमाया, हारिणा माऽऽगमेन । सममसमशमानां, केलिगेहेन विद्वज्
___ जन ! यमदरमायाहारिणामागमेन ॥३॥ मम समसुखलक्ष्म्याः , सा सुरी नूतनाष्टा
पदशुचिरतिरामां, मानवी रातु लाभम् । अभजदिह महत्त्वं, याऽमरीपर्षदीताss
पदशुचि रतिरामा, मानवीराऽतुलाऽऽभम् ॥४॥
अथ श्रीवासुपूज्यजिनस्तुतिः
+ १ ( मालिनीवृत्तम् ) नम तमसुमदाले !, तीर्थनाथं प्रमोदा
दयि ! ततरममान-न्दाऽऽरधीरा जयाऽऽयम् । त्रिदशतरुमिवोर्वी, स्वगिरे स्म प्रसूते,
दयिततरममानं, दारधीरा जया यम् ॥१॥ जिननिचय ! नयानां, रातु तद् युष्मदज्रयो
रपरुष ! मम लाभ, द्वन्द्वमालाऽऽमकाऽन्त !। अमृतमिव रुजाली, हन्ति सर्वां यदुच्चै
३रपरुषममलाऽऽभं!, द्वन्द्वमालामकान्त ! ॥२॥ समय ! सह सहस्वी, संस्तवः स्ताचयान:,
सदयनरमतेना-नीतिचारो जिनानाम् । मनसि मुनिवराणां, यत्र संसक्तचेताः,
४सदयन ! रमते ना, नीतिचारोऽजिनानाम् ॥३॥ १. प्रमोदश्रियः । २. लक्ष्म्यागमेन। ३. कामं मृदुलम्। ४. शोभनमार्ग! ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org