________________
पाणिनीय-अष्टाध्यायी- प्रवचनम्
सिद्धि-(१) पटिष्ठ: । पटु+इष्ठन्। पटु+इष्ठ। पट्+इष्ठ। पटिष्ठ+सु । पटिष्ठः । यहां 'पटु' शब्द से ‘अतिशायने तमबिष्ठनों (५1३1५५) से अतिशायन (प्रकर्ष) अर्थ में 'इष्ठन्' प्रत्यय है। इस प्रत्यय के परे होने पर इस सूत्र से 'पटु' के टि-भाग ( उ ) का लोप होता है। ऐसे ही- लघिष्ठः ।
७०४
(२) पटिमा। यहां 'पटु' शब्द से पृथ्वादिभ्यः इमनिज्वा' (५1१1१२२) से भाव-अर्थ में 'इमनिच्' प्रत्यय है। शेष कार्य पूर्ववत् है । ऐसे ही - लघिमा ।
(३) पटीयान् । यहां 'पटु' शब्द से 'द्विवचनविभज्योपपदे तरबीयसुनौं (५1३1५७) से 'ईयसुन्' प्रत्यय है। शेष कार्य पूर्ववत् है । ऐसे ही- लघीयान् ।
यणादिपरस्य लोपः
(२८) स्थूलदूरयुवहस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः | १५६ ।
प०वि०-स्थूल-दूर- युव-ह्रस्व- क्षिप्राणाम् ६ । ३ यणादिपरम् १।१ पूर्वस्य ६ ।१ च अव्ययपदम् गुणः १ । १ ।
स०-स्थूलं च दूरं च युवा च ह्रस्वश्च क्षिप्रं च क्षुद्रश्च स्थूल०क्षुद्रा:, तेषाम्-स्थूल०क्षुद्राणाम् (इतरेतरयोगद्वन्द्वः) । यण् आदि यस्य तद् यणादि, यणादि च अदः परं च इति यणादिपरम् (बहुव्रीहिगर्भितकर्मधारयः) ।
अनु०-अङ्गस्य, भस्य, लोप:, इष्ठेमेयस्सु इति चानुवर्तते । अन्वयः-स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां भानाम् अङ्गानां इष्ठेमेयस्सु यणादिपरं लोप:, पूर्वस्य च गुणः ।
अर्थ::-स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां भसंज्ञकानाम् अङ्गानाम् इष्ठेमेयस्सु प्रत्ययेषु परतो यणादि परस्य भागस्य लोपो भवति, पूर्वस्य च गुणो भवति ।
उदा०-(स्थूलम्) स्थविष्ठः (इष्ठन्)। स्थवीयान् (ईयसुन्) । (दूरम्) दविष्ठः (इष्ठन्) । दवीयान् ( ईयसुन्) । (युवन् ) यविष्ठः (इष्ठन् ) । यवीयान् (ईयसुन्) । (ह्रस्व:) ह्रसिष्ठः (इष्ठन् ) । ह्रसिमा (इमनिच्)। ह्रसीयान् (ईयसुन्)। (क्षिप्रम् ) क्षेपिष्ठः (इष्ठन् ) । क्षेपिमा (इमनिच्)।