________________
४३०
पाणिनीय-अष्टाध्यायी-प्रवचनम् डच्
(६) बहुव्रीहौ संख्येये डजबहुगणात्।७३। प०वि०-बहुव्रीहौ ७।१ संख्येये ७।१ डच् १।१ अबहुगणात् ५।१।
सo-बहुश्च गणश्च एतयो: समाहारो बहुगणम्, न बहुगणम्अबहुगणम्, तस्मात्-अबहुगणात् (समाहारद्वन्द्वगर्भितनञ्तत्पुरुषः)।
अनु०-समासान्ता इत्यनुवर्तते। अन्वय:-बहुव्रीहौ संख्येयेऽबहुगणात् संख्यावाचिन: समासान्तो डच् ।
अर्थ:-बहुव्रीहौ समासे संख्येये चार्थे वर्तमानाद् बहुगणवर्जितात् संख्यावाचिन: प्रातिपदिकात् समासान्तो डच् प्रत्ययो भवति ।
उदा०-दशानां समीपम्-उपदशा: पुरुषाः । उपविंशाः पुरुषाः । उपत्रिंशा पुरुषाः । दशानामासन्नम्-आसन्नदशा: पुरुषाः । दशानामदूरम्अदूरदशा: पुरुषाः । दशानामधिकम्-अधिकदशा: पुरुषाः । द्वौ च त्रयश्च-द्वित्रा: पुरुषाः । पञ्च च षट् च-पञ्चषा: पुरुषाः । पञ्च च दश च-पञ्चदशा: पुरुषाः।
आर्यभाषा: अर्थ-(बहुव्रीहौ) बहुव्रीहि समास में और (संख्येये) गणनीय अर्थ में विद्यमान (अबहुगणात्) बहु और गण से भिन्न संख्यावाची प्रातिपदिक से (समासान्त:) समास का अवयव (डच्) डच् प्रत्यय होता है।
उदा०-दशों के समीप-उपदश पुरुष। विंशति-बीस के समीप-उपविंश पुरुष। त्रिंशत्-तीस के समीप-उपत्रिंश पुरुष। दशों के आसन्न निकट-आसन्नदश पुरुष। दशों के अदूर-पास-अदूरदश पुरुष। दशों से अधिक-अधिकदश पुरुष। दो और तीन-द्वित्र पुरुष। पांच और छ:-पञ्चष पुरुष। पांच और दश-पञ्चदश पुरुष।
सिद्धि-(१) उपदशा: । उप+सु+दशन्+आम्। उपदशन्+डच्। अपदश्+अ। उपदश+जस्। उपदशाः।
यहां बहुव्रीहि समास में और संख्येय अर्थ में विद्यमान संख्यावाची 'दशन्' शब्द से इस सूत्र से समासान्त 'डच्' प्रत्यय है। प्रत्यय के डित् होने से वा०-'डित्यभस्यापि टेर्लोप:' (६।४।१४३) से अंग के टि-भाग (अन्) का लोप होता है।
(२) उपविंशाः। यहां विंशति' शब्द के 'वि' भाग का ति विंशतेर्डिति (६।४।१४२) से लोप होता है। शेष कार्य पूर्ववत् है।
(३) उपत्रिंशा: आदि पदों की सिद्धि पूर्ववत् है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org