________________
पञ्चमाध्यायस्य तृतीय पादः
३६१
उदा०- (प्रत्नः) प्रत्न इव-प्रत्नथा । ( पूर्व ) पूर्व इव- पूर्वथा । (विश्व:) विश्व इव - विश्वथा । (इम: ) इम इव - इमथा । । तं प्रत्नथा पूर्वथा विश्वमथा (ऋ० ५।४४ । १) ।
आर्यभाषाः अर्थ- (छन्दसि ) वेदविषय में (इवे ) सदृश अर्ध में विद्यमान (अत्नपूर्वविश्वेमात्) प्रत्न, पूर्व, विश्व, इम प्रातिपदिकों से ( थाल्) थालू प्रत्यय होता है । उदा०- (प्रत्न) प्रत्न= - पुराने के समान प्रत्नथा । ( पूर्व ) पूर्व के समान पूर्वथा । (विश्व) सबके समान - विश्वथा । (इम) इस के समान इमथा । । “ इम-शब्द: इदमा समानार्थ: प्रकृत्यन्तरम्" इति पदमञ्जर्यं पण्डितहरदत्तमिश्रः । तं प्रत्नथा पूर्वथा विश्वमथा (ऋ०५/४४ 1१) ।
सिद्धि-प्रत्नथा । प्रत्न+सु+थाल्। प्रत्न+था। प्रनथा+सु। प्रत्नथा+0 : प्रत्नथा । यहां इव अर्थ में विद्यमान 'अन्न' शब्द से छन्दविषय में इस सूत्र से 'थात्' प्रत्यय है । 'स्वरादिनिपातमव्ययम्' (१1१1३७ ) से अव्यय संज्ञा होकर 'अव्ययादापसुपः ' ( २/४/८२ ) से 'सु' का लुक् होता है। ऐसे ही - पूर्वथा, विश्वथा, इमथा । इति इवार्थप्रत्ययप्रकरणम् ।
तद्राजसंज्ञकप्रत्ययप्रकरणम्
ञ्यः
(१) पूगाञ्यो ऽग्रामणीपूर्वात् । ११२ । प०वि० - पूगात् ५ | १ व्य: ११ अग्रामणी- पूर्वात् ५ ।१ । स०-ग्रामणी: पूर्व:-अवयवो यस्य तद् ग्रामणीपूर्वम्, न ग्रामणीपूर्वम्अग्रामणीपूर्वम्, तस्मात् - अग्रामणीपूर्वात् (बहुव्रीहिगर्भितनञ्तत्पुरुषः) । पूर्वशब्दोऽत्रावयववचनो गृह्यते ।
अनु० - 'इवे' इति निवृत्तम् ।
अन्वयः - अग्रामणीपूर्वात् पूगाद् ञ्यः । अर्थ:-अग्रामणीपूर्वात्=ग्रामणी- अवयववर्जितात् पूगवाचिनः प्रातिपदिकात् स्वार्थे ञ्यः प्रत्ययो भवति ।
नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घा पूगा इति कथ्यन्ते । उदा० - लोहध्वज एव-लौहध्वज्यः । लौहध्वज्यौ । लोहध्वजाः । शिबिरेव - शैब्यः, शैब्यौ, शिबय: । चातक एव चातक्य: । चातक्यौ । चातकाः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org