________________
पाणिनीय-अष्टाध्यायी प्रवचनम्
सिद्धि - तुन्दिभ: । तुन्दि+सु+भ । तुन्दि+भ। तुन्दिभ+सु । तुन्दिभः ।
यहां प्रथमा-समर्थ 'तुन्दि' शब्द से अस्य (षष्ठी) वा अस्मिन् (सप्तमी) अर्थ में इस सूत्र से 'भ' प्रत्यय है। ऐसे ही - बलिभ:, वटिभ: ।
युस्
२६०
(४७) अहंशुभमोर्युस् ।१४० ।
प०वि० - अहम् - शुभमो: ६ । २ (पञ्चम्यर्थे ) युस् १ । १ । सo - अहं च शुभं च तौ - अहंशुभमौ, तयो: - अहंशुभमो: (इतरेतरयोगद्वन्द्वः) । 'अहम्' इति शब्दोऽत्राहङ्कारेऽर्थे वर्तते । 'शुभम्' इति चाव्ययं शुभपर्याय:=कल्याणवाची वेदितव्यः ।
अनु०-तत्, अस्य, अस्ति, अस्मिन् इति, इति चानुवर्तते । अन्वयः-तद् अहंशुभम्भ्याम् अस्य अस्मिन्निति च युस्, अस्ति । अर्थ:- तद् इति प्रथमासमर्थाभ्याम् अहंशुभम्भ्यां प्रातिपदिकाभ्याम् अस्येति षष्ठ्यर्थे अस्मिन्निति च सप्तम्यर्थे युस् प्रत्ययो भवति, यत् प्रथमासमर्थमस्ति चेत् तद् भवति ।
उदा०- (अहम् ) अहमस्य अस्मिन् वाऽस्ति - अहंयुः - अहङ्कारीत्यर्थः । (शुभम्) शुभमस्य अस्मिन् वाऽस्ति-शुभंयुः = कल्याणीत्यर्थः ।
आर्यभाषाः अर्थ- (तत्) प्रथमा-समर्थ (अहंशुभमो: ) अहम्, शुभम् प्रातिपदिकों से (अस्य) षष्ठी-विभक्ति वा (अस्मिन्निति) सप्तमी विभक्ति के अर्थ में (युस्) युस् प्रत्यय होता है (अस्ति) जो प्रथमा - समर्थ है यदि वह 'अस्ति' हो ।
उदा००- ( अहम् ) अहम् = अहंकार इसका है वा इसमें है यह - अहंयु = अभिमानी (घमण्डी) । (शुभम् ) शुभम् = कल्याण इसका है वा इसमें है यह शुभंयु = कल्याण करनेवाला (परोपकारी) 1
सिद्धि - अहंयुः | अहम्+सु+युस्। अहम्+यु। अहं+यु । अहंयु+सु । अहंयुः ।
यहां प्रथमा-समर्थ' 'अहम्' शब्द से अस्य (षष्ठी) और अस्मिन् (सप्तमी) अर्थ में इस सूत्र से ‘युस्' प्रत्यय है। प्रत्यय के सित् होने से 'सिति च' (१।४।१६ ) से 'अहम्' की पदसंज्ञा होकर 'मोsस्वार:' ( ८1३1२३) से 'अहम्' के मकार को अनुस्वार आदेश होता है। 'वा पदान्तस्य' (८।४।५९) से मकार को विकल्प से परसवर्ण आदेश भी होता है - अहय्यु: । ऐसे ही - शुभंयुः, शुभयँयुः ।
इति मतुबर्थप्रत्ययप्रकरणम् ।
इति पण्डितसुदर्शनदेवाचार्यविरचिते पाणिनीयाष्टाध्यायी प्रवचने पञ्चमाध्यायस्य द्वितीयः पादः समाप्तः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org