SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २२२ पाणिनीय-अष्टाध्यायी-प्रवचनम् शः+नः+इलच्(७) लोमादिपामादिपिच्छादिभ्यः शनेलचः।१००। प०वि०-लोमादि-पामादि-पिच्छादिभ्य: ५।३ श-न-इलच: १।३ । स०-लोम आदिर्येषां ते लोमादयः, पाम आदिर्येषां ते पामादय:, पिच्छ आदिर्येषां ते पिच्छादय: । लोमादयश्च पामादयश्च पिच्छादयश्च ते लोमादिपामादिपिच्छादय:, तेभ्य:-लोमादिपामादिपिच्छादिभ्यः (बहुव्रीहिगर्भित इतरेतरयोगद्वन्द्वः) । शश्च नश्च इलच् च ते शनेलच: (इतरेतरयोगद्वन्द्व:) । अनु०-तत्, अस्य, अस्ति, अस्मिन्, इति, मतुप् इति चानुवर्तते। अर्थ:-तद् इति प्रथमासमर्थेभ्यो लोमादिभ्य: पामादिभ्य: पिच्छादिभ्यश्च प्रातिपदिकेभ्योऽस्येति षष्ठ्यर्थे, अस्मिन्निति च सप्तम्यर्थे यथासंख्यं श-न-इलचो मतुप् च प्रत्ययो भवति, यत् प्रथमासमर्थमस्ति चेत् तद् भवति । उदा०-(लोमादि:) लोमान्यस्य, अस्मिन् वा सन्ति-लोमश: (श:)। लोमवान् (मतुप्)। रोमश: (श:)। रोमवान् (मतुप्) इत्यादिकम् । (पामादि:) पामाऽस्य, अस्मिन् वाऽस्ति-पामन: (न:)। पामवान् (मतुप्) । वामन: (न:) । वामवान् (मतुप्) इत्यादिकम् । (पिच्छादि:) पिच्छमस्य, अस्मिन् वाऽस्ति-पिच्छिलः (इलच्)। पिच्छवान् (मतुप्)। उरसिल: (इलच्)। उरस्वान् (मतुप्) इत्यादिकम् । (१) लोमन् । रोमन् । वल्गु । बभ्रु। हरि। कपि। शुनि । तरु। इति लोमादयः ।। (२) पामन्। वामन्। हेमन्। श्लेष्मन्। कद्र। बलि। श्रेष्ठ। पलल। सामन्। अङ्गात् कल्याणे। शाकीपलालीदवां ह्रस्वस्वं च । विष्वगित्युत्तरपदलोपश्चाकृतसन्धे: । लक्ष्म्या अच्च । इति पामादयः ।। (३) पिच्छ। उरस्। ध्रुवका। क्षुवका। जटाघटाकला: क्षेपे। वर्ण। उदक । पक। प्रज्ञा । इति पिच्छादयः ।। आर्यभाषा: अर्थ-(तत्) प्रथमा-समर्थ (लोमादिपामादिपिच्छादिभ्यः) लोमादि, पामादि, पिच्छादि प्रातिपदिकों से (अस्य) षष्ठी-विभक्ति और (अस्मिन्) सप्तमी-विभक्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003299
Book TitlePaniniya Ashtadhyayi Pravachanam Part 04
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy