________________
१८०
पाणिनीय-अष्टाध्यायी-प्रवचनम् डट् (थुक)
___ (8) षट् कतिकतिपयचतुरां थुक्।५१। प०वि०-षट्-कति-कतिपय-चतुराम् ६।३ थुक् १।१।
स०-षट् च कतिश्च कतिपयश्च चतुर् च ते षट् कतिकतिपयचतुरः, तेषाम्-षट्कतिकतिपयचतुराम् (इतरेतरयोगद्वन्द्व:)।
अनु०-संख्याया:, तस्य, पूरणे, डट् इति चानुवर्तते। अन्वयः-तस्य संख्यानां षट्कतिकतिपयचतुरां पूरणे थुक्, डटि।
अर्थ:-तस्य इति षष्ठीसमर्थानां संख्यावाचिनां षट्कतिकतिपयचतुरां प्रातिपदिकानां पूरणेऽर्थे थुक् आगमो भवति, डटि प्रत्यये परत:।
उदा०-(षट्) षण्णां पूरण:-षष्ठः । (कति) कतीनां पूरण:-कतिथ: । (कतिपय:) कतिपयानां पूरण:-कतिपयथ: । (चतुर्) चतुर्णां पूरण:-चतुर्थः ।
आर्यभाषा अर्थ-(तस्य) षष्ठी-समर्थ (संख्यायाः) संख्यावाची (षट्कतिकतिपयचतुराम्) षट्, कति, कतिपय, चतुर प्रातिपदिकों को (पूरणे) पूरा करनेवाला अर्थ में (थुक्) थुक् आगम होता है (डट्) डट् प्रत्यय परे होने पर।
उदा०-(षट्) षट् छह को पूरा करनेवाला-षष्ठ (छठा)। (कति) कति=कितने को पूरा करनेवाला-कतिथ (कितनेवां)। (कतिपय) कई को पूरा करनेवाला-कतिपयथ (कईवां)। (चतुर्) चार को पूरा करनेवाला-चतुर्थ (चौथा)।।
सिद्धि-षष्ठः । षष्+आम्+डट् । षष्+थुक्+अ। षष्+थ+अ। षष्++अ । षष्ठः ।
यहां षष्ठी-समर्थ, संख्यावाची षष्' शब्द से पूरण-अर्थ में इस सूत्र से 'डट्' प्रत्यय परे होने पर षष्' प्रातिपदिक को 'थुक्' आगम होता है। 'ष्टुना ष्टुः' (८।४।४१) से 'थ्’ को टुत्व (स) होता है। ऐसे ही-कतिथ:, कतिपयथ:, चतुर्थः । डट् (तिथुक)
(५) बहुपूगगणसङ्घस्य तिथुक् ।५२। प०वि०-बहु-पूग-गण-सङ्घस्य ६ ।१ तिथुक् १।१ ।
स०-बहुश्च गणश्च पूगश्च सङ्घश्च एतेषां समाहारो बहुपूगगणसङ्घम्, तस्य-बहुपूगगणसङ्घस्य (समाहारद्वन्द्व:)।
अनु०-संख्याया:, तस्य, पूरणे, डट् इति चानुवर्तते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org