SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १३६ पाणिनीय-अष्टाध्यायी-प्रवचनम् अन्वय:-षष्ठीसमर्थाद् धान्याद् यवयवकषष्टिकाद् भवने यत्, क्षेत्रे। अर्थ:-षष्ठीसमर्थेभ्यो धान्यविशेषवाचिभ्यो यवयवकषष्टिकेभ्य: प्रातिपदिकेभ्यो भवनेऽर्थे यत् प्रत्ययो भवति, यद् भवनं क्षेत्रं चेत् तद् भवति। उदा०-(यव:) यवानां भवनम्-यव्यं क्षेत्रम्। (यवक:) यवकानां भवनम्-यवक्यं क्षेत्रम्। (षष्टिक:) षष्टिकानां भवनम्-षष्टिक्यं क्षेत्रम् । आर्यभाषा: अर्थ-षष्ठी-समर्थ (धान्यानाम्) धान्यविशेषवाची (यवयवकषष्टिकात्) यव, यवक, षष्टिक प्रातिपदिकों से (भवने) भवन अर्थ में (यत्) यत् प्रत्यय होता है (क्षेत्रे) जो भवन है यदि वह क्षेत्र हो। उदा०-(यव) जौओं का भवन-यव्य क्षेत्र। (यवक) जौओं का भवन-यवक्य क्षेत्र। (षष्टिक) साठी धानों का भवन-पष्टिक्य क्षेत्र। जौ आदि बोने योग्य खेत। सिद्धि-यव्यम् । यव+आम्-यत् । य+य । यव्य+सु। यव्यम्। ___ यहां षष्ठी-समर्थ, धान्यविशेषवाची ‘यव' शब्द से भवन अर्थ में इस सूत्र से 'यत्' प्रत्यय है। 'यस्येति च' (६।४।१४८) से अंग के अकार का लोप होता है। ऐसे ही-यवक्यम्, षष्टिक्यम् । यत्-विकल्प: (४) विभाषा तिलमाषोमाभङ्गाणुभ्यः।४। प०वि०-विभाषा ११ तिल-माष-उमा-भङ्गा-अणुभ्य: ५।३ । स०-तिलं च माषश्च उमा च भङ्गा च अणुश्च ते तिलमाषोमाभङ्गाणव:, तेभ्य:-तिलमाषोमाभङ्गाणुभ्य: (इतरेतरयोगद्वन्द्व:) । अनु०-धान्यानाम्, भवने, क्षेत्रे, यत् इति चानुवर्तते। अन्वय:-षष्ठीसमर्थेभ्यो धान्येभ्यस्तिलमाषोमाभगाणुभ्यो भवने विभाषा यत्, क्षेत्रे। अर्थ:-षष्ठीसमर्थेभ्यो धान्यविशेषवाचिभ्यस्तिलमाषोमाभङ्गाणुभ्यः प्रातिपदिकेभ्यो भवनेऽर्थे विकल्पेन यत् प्रत्ययो भवति, यद् भवनं क्षेत्रं चेत् तद् भवति, पक्षे च खञ् प्रत्ययो भवति। उदा०-(तिलम्) तिलानां भवनम्-तिल्यं क्षेत्रम् (यत्)। तैलीनं क्षेत्रम् (खञ्)। (माष:) माषाणां भवनम्-माष्यं क्षेत्रम् (यत्) । माषीणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003299
Book TitlePaniniya Ashtadhyayi Pravachanam Part 04
Original Sutra AuthorN/A
AuthorSudarshanacharya
PublisherBramharshi Swami Virjanand Arsh Dharmarth Nyas Zajjar
Publication Year1998
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy