________________
पाणिनीय-अष्टाध्यायी-प्रवचनम्
स०-न विद्यते कर्म येषां तेऽकर्मकाः, तेभ्य:-अकर्मकेभ्य: ( बहुव्रीहि: ) । अर्थः-लकाराः सकर्मकेभ्यो धातुभ्यः कर्मवाच्ये कर्तृवाच्ये च भवन्ति, अकर्मकेभ्यश्च धातुभ्यो लकारा भाववाच्ये कर्तृवाच्ये च भवन्ति ।
1
उदा०-(१) सकर्मकेभ्यः कर्मणि - देवदत्तेन ग्रामो गम्यते । कर्तरिदेवदत्तो ग्रामं गच्छति । (२) अकर्मकेभ्यो भावे - देवदत्तेनाऽऽस्यते । कर्तरिदेवदत्त आस्ते । सकर्मकेभ्यो भावे, अकर्मकेभ्यश्च धातुभ्यः कर्मणि लकारा न भवन्ति ।
५१४
सकर्मक अकर्मकपरीक्षाविधिः
क्रियापदं कर्तृपदेन युक्तं,
व्यपेक्षते यत्र किमित्यपेक्षाम् ।
सकर्मकं तं सुधियो जदन्ति
शेषस्ततो धातुरकर्मकः स्यात् ।।
अर्थ:-यत्र कर्तृवाचकपदेन सह प्रयुक्तं क्रियापदं 'किम्’ इत्यपेक्षते तत्र स धातुः सकर्मकः । यथा रामो भक्षयति, गच्छति, अधीते, इत्यादिषु सर्वत्र 'किम्' इत्यपेक्षा जायतेऽतः सकर्मका एते धातव: । यत्र तु क्रियापदं 'किम्' इत्यस्यापेक्षां न कुरुते तेऽकर्मका धातवः, यथा - भवति, आस्ते, एधते, लज्जते, शेते, इत्यादयः । तथा च परिगण्यते
लज्जा-सत्ता-स्थिति-जागरणं
Jain Education International
वृद्धि-क्षय-भय-जीवन-मरणम् ।
शयन -क्रीडा-रुचि - दीप्त्यर्थं
धातुगणं
तमकर्मकमाहुः । ।
आर्यभाषा - अर्थ - (ल.) लट् आदि दश लकार सकर्मक (धातोः) धातुओं से (कर्मणि) कर्मवाच्य में (च) और कर्तृवाच्य अर्थ में होते हैं और (अकर्मकेभ्यः) अकर्मक (धातोः) धातुओं से परे (भावे) भाववाच्य अर्थ में (च) और कर्तृवाच्य अर्थ में होते हैं । सकर्मक धातुओं से भाववाच्य में और सकर्मक धातुओं से कर्मवाच्य अर्थ में लकार नहीं होते हैं। उदा०- (१) सकर्मक से कर्म में - देवदत्तेन ग्रामो गम्यते । देवदत्त के द्वारा गांव जाया जाता है । कर्ता में देवदत्तो ग्रामं गच्छति । देवदत्त गांव जाता है। (२) अकर्मक
For Private & Personal Use Only
www.jainelibrary.org