________________
द्वितीयाध्यायस्य तृतीयः पादः
४४५
(१४) अधीयन् । 'इङ् अध्ययने' (अदा०आ०) अधि+इङ् +शतृ । अधि+इ+शप्+अत् । अधीय्+अ+अत् । अधीयत्+सु । अधीयन् । यहां 'इङ्' धातु से 'इङ्घार्योः शत्रकृच्छ्रिणि (३ / २ /१३०) से शतृ प्रत्यय है।
(१५) कर्ता । 'डुकृञ् करणें (तना० उ० ) । कृ+तृन् । कर्+र्तृ । कर्तृ+सु । कर्ता । यहां 'इङ्' धातु से 'तृन्' (३ । २ । १३५ ) से तृन् प्रत्यय है। षष्ठीप्रतिषेधः
(२२) अकेनोर्भविष्यदाधर्मण्ययोः । ७० । प०वि०-अक-इनो: ६ । २ भविष्यत् - आधर्मण्ययोः ६ । २ ।
स०-अकश्च इन् च तौ-अकेनौ, तयो:- अकेनो: (इतरेतरयोगद्वन्द्वः) । अधमम् ऋणं यस्य सोऽधमर्णः । अधमर्णस्य भाव आधमर्ण्यम् । भविष्यच्च आधमर्ण्यञ्च ते - भविष्यदाधमर्ण्ये, तयो:- भविष्यदाधमर्ण्ययोः
(इतरेतरयोगद्वन्द्वः) ।
अनु० - षष्ठी, न इति चानुवर्तते ।
अन्वयः-भविष्यदाधर्मण्ययोरकेनोः प्रयोगे षष्ठी न ।
अर्थ:- भविष्यति काले विहितस्य अकप्रत्ययान्तस्य, भविष्यति काले आधमर्ण्ये चार्थे विहितस्य इन्प्रत्ययान्तस्य शब्दस्य प्रयोगे षष्ठी विभक्तिर्न भवति ।
उदा०-(१) अक:-(भविष्यति ) - कटं कारको व्रजति । ओदनं भोजको व्रजति । (२) इन: - (भविष्यति ) - ग्रामं गमी देवदत्त: । नगरं गामी यज्ञदत्तः । (३) इन: - ( आधमर्ण्य) - शतं दायी देवदत्तः । सहस्रं दायी यज्ञदत्तः ।
आर्यभाषा - अर्थ - (भविष्यदाधमर्ण्ययोः, अकेनोः) भविष्यत् काल में विहित अक-प्रत्ययान्त और भविष्यत् काल तथा आधमर्ण्य अर्थ में विहित इन्-प्रत्ययान्त शब्द के प्रयोग में (षष्ठी) षष्ठी विभक्ति (न) नहीं होती है,
उदा०- - (१) अक- (भविष्यत्) - कटं कारको व्रजति । चटाई को बनानेवाला जारहा है। ओदनं भोजको व्रजति । भात को खानेवाला जारहा है। (२) इन्- (भविष्यत्) - ग्रामं मी देवदत्तः । देवदत्त गांव को जानेवाला है। नगरं गामी यज्ञदत्तः । यज्ञदत्त नगर को जानेवाला है । (३) इन्- ( आधमर्ण्य ) - शतं दायी देवदत्तः । देवदत्त सौ रुपये ऋण देनेवाला है । सहस्रं दायी यज्ञदत्तः । यज्ञदत्त हजार रुपये ऋण देनेवाला है।
सिद्धि-(१) कटं कारको व्रजति । 'डुकृञ् करणें' (तना०3०) । कृ+ण्वुल् । कृ+अक । कार्+अक। कारक+सु । कारकः । यहां कृ धातु से भविष्यत् काल अर्थ में तुमुन्ण्वुलौ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org