________________
३६४
पाणिनीय-अष्टाध्यायी-प्रवचनम् अर्थ:-निधारणेऽर्थे वर्तमानं षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह न समस्यते । जातिगुणक्रियाभि: समुदायादेकदेशस्य पृथक्करणं निर्धारणम् ।
उदा०-(जाति:) क्षत्रियो मनुष्याणां शूरतमः । (गुण:) कृष्णा गवां सम्पन्नक्षीरतमा। (क्रिया) धावन्नध्वगानां शीघ्रतमः।
आर्यभाषा-अर्थ-(निधारणे) निर्धारण अर्थ में वर्तमान (षष्ठी) षष्ठी-अन्त सुबन्त का समर्थ सुबन्त के साथ समास (न) नहीं होता है। जाति गुण और क्रिया के कारण समूह से एक भाग को पृथक् करना निर्धारण कहाता है।
उदा०-(जाति) क्षत्रियो मनुष्याणां शूरतमः । मनुष्यों में क्षत्रिय अधिक शूर होता है। (गुण) कृष्णा गवां सम्पन्नक्षीरतमा । गौओं में काली गाय अधिक दूध देनेवाली होती है। (क्रिया) धावन्नध्वगानां शीघ्रतमः । मार्ग चलनेवालों में दौड़नेवाला शीघ्रगामी होता है।
___ सिद्धि-मनुष्याणां शूरतमः। यहां निर्धारण अर्थ में षष्ठ्यन्त सुबन्त का समास नहीं हुआ। यहां यतश्च निर्धारणम्' (३।२।४१) से निर्धारण में षष्ठी विभक्ति होती है। षष्ठी (पूरणादिभिः)(४) पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन।११।
प०वि०- पूरण-गुण-सुहितार्थ-सत्-अव्यय-तव्य-समानाधि-करणेन ३।१।
स०-पूरणं च गुणश्च सुहितार्थश्च सत् च अव्ययं च तव्यश्च समानाधिकरणं च एतेषां समाहार: पूरण०समानाधिकरणम्, तेनपूरणसमानाधिकरणेन (समाहारद्वन्द्व:)।
अनु०-षष्ठी न इति चानुवर्तते। अन्वय:-षष्ठी सुप् पूरण०समानाधिकरणेन सुपा सह न समासः ।
अर्थ:-षष्ठ्यन्तं सुबन्तं पूरण०समानाधिकरणेन समर्थेन सुबन्तेन सह न समस्यते।
उदा०-(पूरणम्) छात्राणां पञ्चमः। छात्राणां दशमः। (गुण:) बलाकाया: शौक्ल्यम् । काकस्य कार्ण्यम्। (सुहितार्थ:-तृप्तार्थः) फलानां
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org