________________
३१०
पाणिनीय-अष्टाध्यायी-प्रवचनम् अनु०-'सुप् सुपा सह अव्ययीभाव:' इत्यनुवर्तते। अन्वय:-संख्या सुप् वंश्येन सुपा सह विभाषा समासोऽव्ययीभावः ।
अर्थ:-संख्यावाचि सुबन्तं वंश्यवाचिना समर्थेन सुबन्तेन सह विकल्पेन समस्यते, अव्ययीभावश्च समासो भवति ।
उदा०-द्वौ मुनी व्याकरणस्य वंश्याविति-द्विमुनि व्याकरणस्य । पाणिनि: पतञ्जलिश्च । त्रयो मुनयो व्याकरणस्य वंश्या इति त्रिमुनि व्याकरणस्य। पाणिनि:, पतञ्जलि: कात्यायनश्च ।
आर्यभाषा-अर्थ-(संख्या) संख्यावाची सुबन्त का (वंश्येन) वंश्यवाची समर्थ सुबन्त के साथ विकल्प से समास होता है और उसी की (अव्ययीभाव:) अव्ययीभाव संज्ञा होती है।
उदा०-द्वौ मुनी व्याकरणस्य वंश्याविति-द्विमुनि व्याकरणस्य । पाणिनि और पतञ्जलि दो मुनि व्याकरणशास्त्र के एक वंश के हैं। त्रयो मुनयो व्याकरणस्य वंश्या इति त्रिमुनि व्याकरणस्य । पाणिनि, पतञ्जलि और कात्यायन ये तीन मुनि व्याकरणशास्त्र के एक वंश के हैं।
विशेष-विद्या और जन्म दो प्रकार से वंश बनता है। यहां विद्या-वंश से अभिप्राय जानना चाहिये।
सिद्धि-द्विमुनि । द्वि+औ+मुनि+औ। द्विमुनि सु। द्विमुनि । पूर्ववत् । ऐसे ही त्रिमुनि । संख्या
(१६) नदीभिश्च ।२०। प०वि०-नदीभिः ३।३ च अव्ययपदम्। अनु०-'संख्या सुप् सह अव्ययीभावः' इत्यनुवर्तते। अन्वय:-संख्या सुप् नदीभि: सुबभि: सह विभाषा समासोऽव्ययीभावः ।
अर्थ:-संख्यावाचि सुबन्तं नदीवाचिभि: समर्थैः सुबन्तै: सह विकल्पेन समस्यते, अव्ययीभावश्च समासो भवन्ति ।
उदा०-सप्तानां गङ्गानां समाहार इति सप्तगङ्गम् । द्वयोर्यमुनयो: समाहार इति द्वियमुनम् पञ्चानां नदीनां समाहार इति पञ्चनदम् । सप्तानां गोदावरीणां समाहार इति सप्तगोदावरम्। 'नदीभि: संख्यायाः समाहारेऽव्ययीभावो वक्तव्यः' इति वार्तिकेन समाहारेऽयं समासो विधीयते।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org