SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [कृशः ] 'कृशच् तनुत्वे' (१२०७) कृश् । कृश्यत्यसौ । अनेन कप्र० → अ । [प्रियः] 'प्रींगश तृप्ति-कान्त्योः ' (१५१०) प्री। प्रीणातीति । अनेन कप्र० → अ । 'संयोगात्' (२।१५२) इय् । [किरः] 'कृत् विक्षेपे' (१३३४) कृ । किरतीति । अनेन कप्र० → अ । 'ऋतां क्ङितीर्' (४|४|११६) इर् । [उत्किरः] उत्किरतीति । अनेन कप्र० → अ । 'ऋतां क्ङितीर्' (४।४।११६) इर् । [गिलः ] 'गुत् निगरणे' (१३३५) गृ । +गिरतीति । अनेन कप्र० → अ । 'ऋतां क्ङितीर्' (४|४|११६) इर् । 'नवा स्वरे' (२।३।१०२) इति व्यवस्थितविभाषाविज्ञानात् नित्यमेव लत्वम् ।। [निगिलः] अनिगिरतीति । अनेन कप्र० → अ । 'ऋतां क्ङितीर्' (४।४।११६) इर् । 'नवा स्वरे' (२।३।१०२) इति व्यवस्थितविभाषाविज्ञानात् नित्यमेव लत्वम् । [ज्ञः] 'श् अवबोधने' (१५४०) ज्ञा । जानातीति । अनेन कप्र० → अ । 'इडेत्-पुसि चाऽऽतो लुक् (४।३।९४) आलुक् । [काष्ठभेदः] काष्ठ 'भिदंपी विदारणे' (१४७७) भिद् । काष्ठं भिनत्तीति । 'कर्मणोऽण' (५।१।७२) अणप्र० → अ । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'र: पदान्ते विसर्गस्तयोः' (१।३।५३) विसर्गः ॥छ। गेहे ग्रहः ॥ ५१५५ ॥ [गेहे] गेह सप्तमी ङि। [ग्रहः ] ग्रह पञ्चमी ङसि । [गृहम् ] 'ग्रहीश् उपादाने' (१५१७) ग्रह् । गृह्णाति पुरुषोपार्जितं वित्तमिति गृहम् । अनेन कप्र० → अ । 'ग्रहव्रस्च-भ्रस्ज-प्रच्छ:' (४.१।८४) य्वृत् ग्र० → गृ० । [गृहाणि गृहाः] गृह्णन्ति पुरुषोपार्जितानि वित्तानि इति गृहाणि गृहा वा । अनेन कप्र० → अ । 'ग्रह-व्रस्चभ्रस्ज-प्रच्छ:' (४।१।८४) यवृत् ग्र० → गृ० । प्र० जस् । पुंसि बहुवचनान्त एव । उपचारात् “दारा गृहाः" दारा एव गृहा इत्यर्थः । यत उक्तं-"गृहिणी गृहमुच्यते" ॥छ।। उपसर्गादातो डोऽश्यः ॥ ५।१।५६ ॥ [उपसर्गात् ] उपसर्ग पञ्चमी ङसि । [आतः] आत् पञ्चमी ङसि । [डोऽश्यः] ड प्रथमा सि । 'सो रुः' (२।११७२) स० → र० । न श्या = अश्या(:), तस्मात् = अश्यः । 'लुगाऽऽतोऽनापः' (२।११०७) आलुक् । 'अतोऽति रोरुः' (१।३।२०) र० → उ० । 'अवर्णस्येवर्णादिनैदोदरल्' (१।२।६) ओ। + श० म० न्या० - गिलतीति । श० म० न्या० - निगिलतीति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy