________________
३२२
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
[अभ्रविलायं विलीनः] अभ्र विपूर्व० 'लींच् श्लेषणे' (१२४८) ली। अभ्रमिव विलीनं = अभ्रविलायम् । अनेन णम्प्र० → अम्। 'लीङ्-लिनोर्वा' (४।२।९) ला । 'आत ऐ: कृऔ' (४।३।५३) आ० → ऐ० । 'एदैतोऽयाय्' (शरा२३) आय् । विलीयते स्म । क्तप्र० → त । 'सूयत्याद्योदितः' (४।२७०) त० → न० । अभ्रमिव विलीन इत्यर्थः ॥छ।।
उपात् किरो लवने ॥ ५।४।७२ ॥ [ उपात्] उप पञ्चमी ङसि । [किरः] किर् पञ्चमी ङसि । [लवने] लवन सप्तमी ङि ।
लवन इति वचनात् तस्यैवेति निवृत्तम्, इत ऊर्ध्वं तस्यैव अन्यस्यैव कामचारः, परं यत्र तस्यैव तत्र क्रियाविशेषणमेव ।
[उपस्कारं मद्रका लुनन्ति ] उपपूर्व० 'कृत् विक्षेपे' (१३३४) कृ । 'किरो लवने' (४।४।९३) स्सट् → स० । उपस्कीर्यते = उपस्कारम् । अनेन णम्प्र० → अम् । 'नामिनोऽकलि-हलेः' (४३५१) वृ० आर् । प्रथमा सि । 'अव्ययस्य (३।२७) सिलुप् । मद्रक प्रथमा जस् । 'लूगश् छेदने' (१५१९) लू । वर्त्तः अन्ति । 'क्यादेः' (३।४।७९) श्नाप्र० → ना । 'प्वादेर्हस्वः' (४।२।१०५) हुस्वः । 'श्नश्चाऽऽतः' (४।२।९६) आलुक् । विक्षिपन्तो लुनन्तीत्यर्थः । पूर्व विक्षिपन्त(:) पश्चाल्लुनन्तीत्यर्थः ।
[उपकीर्य गच्छति] उपकरणं पूर्वं = उपकीर्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४), क्त्वा → यप् । 'ऋतां क्ङितीर' (४|४|११६) इर् । 'भ्वादेर्नामिनो'० (२।१।६३) कि० → की० गच्छति ॥छा।
दंशेस्तृतीयया ॥ ५।४।७३ ॥ [दंशेः] दंशि पञ्चमी ङसि । [ तृतीयया] तृतीया तृतीया टा । तिसृणां पूरणी = तृतीया, तया ।
[मूलकेनोपदंशं, मूलकोपदंशं भुङ्क्ते, पक्षे-मूलकेनोपदश्य भुङ्क्ते] उपपूर्व० 'दंशं दशने' (४९६) दंश् । मूलकेनोपदश्य = मूलकोपदंशं भुङ्क्ते । अनेन णम्प्र० । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । 'तृतीयोक्तं वा' (३।१।५०) समासः । 'ऐकार्ये' (३।२।८) तृतीयालोपः । पक्षे-उपदंशनं पूर्वं = उपदश्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक्, भुङ्क्ते ।
[आर्द्रकेणोपदंशं, आर्द्रकोपदंशं भुङ्क्ते, पक्षे-आर्द्रकेणोपदश्य भुङ्क्ते ] उपपूर्व० 'दंशं दशने' (४९६) दंश् । आईकेणोपदश्य = आर्द्रकेणोपदंशम् । अनेन णम्प्र० → अम् । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । 'तृतीयोक्तं वा' (३।१।५०) समासः । 'ऐकाचँ' (३।२।८) तृतीयालोपः । पक्षे उपदंशनं पूर्वं = उपदश्य । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । ॐ 'नो व्यञ्जन'० (४।२।४५) नलुक्, भुङ्क्ते ।
मूलकाद्युपदंशेः कर्मापि प्रधानस्य भुजेः करणमिति तृतीयैव भवति । प्रधानक्रियोपयुक्ते हि कारके गुणक्रिया न स्वानुरूपं(पां) विभक्तिमुत्पादयितुमलमप्रधानत्वादेव, यथेष्यते ग्रामो गन्तुम् ॥छ।।
हिंसार्थादेकाप्यात् ॥ ५।४।७४ ॥ [हिंसात् ] हिंसा अर्थो यस्य सः = हिंसार्थस्तस्मात् ।
'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) इति सूत्रस्य प्रवृत्तिरत्र असङ्गता भाति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org