SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः॥ २६३ [पलाशशातनः] 'शद्रों शातने' (९६७) शद् । शीयते कश्चित् तमन्यः प्रयुङ्क्ते । 'प्रयोक्तृ'० (३।४।२०) णिगप्र० । 'शदिरगतौ शात्' (४।२।२३) शात् । पलाशानि शात्यन्तेऽनेन = पलाशशातनः । अनेन अनट्प्र० → अन । 'णेरनिटि' (४।३।८३) णिग्लोपः । [अविलवनः ] 'लुग्श् छेदने' (१५१९) लू, नञ्-विपूर्व० । न विलूयते - न छिद्यतेऽनेनेति अविलवनः । अनेन अनटप्र० → अन। 'नामिनो'० (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'नजत्' (३।२।१२५) न० → अ० । [श्मश्रुकर्तनः ] 'कृतैत् छेदने' (१३२५) कृत् । श्मश्रूणि-कूर्चकेशाः कृत्यन्ते-छिद्यन्तेऽनेनेति श्मश्रुकर्तनः । अनेन अनटप्र० → अन । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । आधारे- गोदोहनी ] गो ‘दुहीक क्षरणे' (११२७) दुह् । गावो दुह्यन्तेऽस्यामिति गोदोहनी । अनेन अनट्प्र० → अन । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ओ । [सक्तुधानी] सक्तु 'डुधांग्क् धारणे च' (११३९) धा । सक्तवो धीयन्तेऽस्यामिति सक्तुधानी । अनेन अनट्प्र० → अन। [तिलपीडनी] तिल 'पीडण् गहने' (१६२५) पीड् । 'चुरादिभ्यो णिच् (३।४।१७) णिचप्र० । तिलानि पीड्यन्तेऽस्यामिति तिलपीडनी । अनेन अनट्प्र० → अन । 'णेरनिटि' (४।३।८३) णिच्लोपः । सर्वत्र 'अणजेयेकण'० (२।४।२०) ङी। [शयनम् ] 'शीङ्क् स्वप्ने' (११०५) शी । शय्यतेऽस्मिन्निति शयनम् । अनेन अनट्प्र० - अन। 'नामिनो'० (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् । [आसनम् ] 'आसिक् उपवेशने' (१११९) आस् । आस्यते सुखेनाऽस्मिन्नित्यासनम् । अनेन अनट्प्र० → अन । [अधिकरणम् ] अधि 'डुइंग् करणे' (८८८) कृ । अधिक्रियतेऽस्मिन्नित्यधिकरणम् । अनेन अनट्प्र० → अन । 'नामिनो'० (४।३।१) गु० अर् । [आस्थानम्] "ष्ठां गतिनिवृत्तौ' (५) ष्ठा । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्था । "निमित्ताभावे'. (न्या०सं०वक्ष०(१)/सूत्र (२९)) स्था, आपूर्व० । आस्थीयतेऽस्मिन्नित्यास्थानम् । अनेन अनट्प्र० → अन । सि-अम् ॥छ।। पुंनाम्नि घः ॥ ५।३।१३० ॥ [नाम्नि] पुम्स्-नामन् । पुंसो नाम = पुंनाम, तस्मिन् । 'अनोऽस्य' (२।१।१०८) अलुक् । ('ई-ङो वा' (२।१।१०९) अलुक्) । ‘पदस्य' (२।१।८९) सलुक् । 'तौ मुमौ'० (१।३।१९) अनुस्वारः । [घः] घ प्रथमा सि ।। करणे -[प्रच्छदः] 'छदण् संवरणे' (१६५५) छद्, प्रपूर्व० । 'चुरादि'० (३।४।१७) णिच्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः छ० → छा० । प्रच्छाद्यतेऽनेनेति प्रच्छदः । अनेन घप्र० । 'णेरनिटि' (४।३।८३) णिच्लोपः । 'एकोपसर्गस्य च घे' (४।२।३४) इस्वत्वम् । [उरश्छदः] 'छदण् संवरणे' (१६५५) छद् । 'चुरादि'० (३।४।१७) णिचप्र० । णिति' (४।३।५०) उपान्त्यवृद्धिः आ । उरो वक्षस्थलं छाद्यतेऽनेनेति उरश्छदः । अनेन घप्र० । 'णेरनिटि' (४।३।८३) णिच्लोपः । ‘एकोपसर्गस्य च घे' (४।२।३४) हस्वत्वम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy