SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य तृतीयः पादः ॥ णि-वेत्त्यास-श्रन्थ-घट्ट-वन्देरनः ॥५॥३।१११ ॥ [णिवेत्त्यासश्रन्थघवन्देः] णिश्च वेत्तिश्च आसश्च श्रन्थश्च घट्टश्च वन्दिश्च = णिवेत्त्यासश्रन्थघट्टवन्दि, तस्मात् । [अनः ] अन प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । [कारणा] 'डुकंग् करणे' (८८८) कृ । कुर्वन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे'० (३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हलेः' (४३५१) वृद्धि: आर् । कारणं = कारणा । अनेन अनप्र० । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'आत्' (२।४।१८) आप्प्र० → आ । 'र-वर्णान्नो ण'० (२।३।६३) णत्वम् । [हारणा ] 'हंग् हरणे' (८८५) ह । हरन्तं प्रयुङ्क्ते । 'प्रयोक्तृ'० (३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । हारणं = हारणा । अनेन अनप्र० । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'आत्' (२।४।१८) आप्प्र० → आ । 'र-वर्णान्नो ण'० (२।३।६३) णत्वम् । [कामना ] 'कमूङ् कान्तौ' (७८९) कम् । 'कमेणिङ्' (३।४।२) णिप्र० । 'णिति' ('४।३५०) उपान्त्यवृद्धिः आ । कामनं = कामना । अनेन अनप्र० । 'णेरनिटि' (४।३।८३) णिङ्लोपः । 'आत्' (२।४।१८) आप्प्र० → आ । [लक्षणा ] 'लक्षीण् दर्शनाङ्कनयोः' (१७१९) लक्ष् । 'चुरादि'० (३।४।१७) णिच्प्र० । लक्षणं = लक्षणा । अनेन अनप्र० । 'णेरनिटि' (४।३।८३) णिच्लोपः । 'आत्' (२।४।१८) आप्प्र० → आ । [भावना] 'भू सत्तायाम्' (१) भू । भवन्तं प्रयुङ्क्ते । 'प्रयोक्तृ' ० (३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । भावनं = भावना । अनेन अनप्र० । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'आत्' (२।४।१८) आप्प्र० + आ । [वेदना] 'विदक् ज्ञाने' (१०९९) विद् । वेदनं = वेदना । अनेन अनप्र० । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए। 'आत्' (२।४।१८) आप्प्र० → आ । [आसना] 'आसिक् उपवेशने' (१११९) आस् । आसनं = आसना । अनेन अनप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । [उपासना] 'आसिक् उपवेशने' (१११९) आस्, उपपूर्व० । उपासनं = उपासना । अनेन अनप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । [श्रन्थना ] 'श्रन्थश् मोचन-प्रतिहर्षयोः' (१५४६) श्रन्थ् । श्रन्थनं = श्रन्थना । अनेन अनप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । मतान्तरे- [ग्रन्थना ] 'ग्रन्थश् संदर्भे' (१५४८) ग्रन्थ् । ग्रन्थनं = ग्रन्थना । अनेन अनप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । [घट्टना] 'घट्टि चलने' (६६८) घट्ट । घट्टनं = घट्टना । अनेन अनप्र० । 'आत्' (२।४।१८) आप्प्र० → आ । [वन्दना ] 'वदुङ् स्तुत्यभिवादनयोः' (७२१) वद् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) वन्द् । वन्दनं = वन्दना । अनेन अनप्र० । 'आत्' (२।४।१८) आप्प्र० → आ छ। ॥ श० म० न्या० - भूधातोः प्राप्त्यर्थात् 'भूः प्राप्तौ णिङ् (३।४।१९) णिङि अने च भावना । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy