SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २४० श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां । [दीप्तिः] 'दीपैचि दीप्तौ' (१२६६) दीप् । दीपनं = दीप्तिः । स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । [अक्तिः] 'अजू(जौ)प् व्यक्ति-म्रक्षण-गतिषु' (१४८८) अञ् । अञ्जनं = अक्तिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । 'च-जः क-गम्' (२।१।९६) ज० → ग० । 'अघोषे. (१।३।५०) ग० → क० । [अपचितिः] 'चायग् पूजा-निशामनयोः' (९१७) चाय, अपपूर्व० । अपचायनं = अपचितिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । 'अपाच्चायश्चिः क्तौ' (४।२।६६) चाय → चि० । [स्फूर्तिः ] 'स्फुर्छा विस्मृतौ' (१२७) स्फुर्छ । स्फूर्छनं = स्फूर्तिः । 'भ्वादेर्नामिनो'० (२।१।६३) दीर्घः । [मूर्तिः] 'मुर्छा मोह-समुच्छाययोः' (१२६) मुर्छ । मूर्छनं = मूर्तिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । 'राल्लुक्' (४।१।११०) छलुक् । 'भ्वादेर्नामिनो'० (२।१।६३) दीर्घः । [स्फूर्तिः ] 'स्फुरत् स्फुरणे' (१४६०) स्फुर् । स्फुरणं = स्फूर्तिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । 'भ्वादेर्नामिनो'० (२।१।६३) दीर्घत्वम् । [निपठितिः] 'पठ व्यक्तायां वाचि' (२१३) पठ्, निपूर्व० । निपठनं = निपठितिः । "स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । 'तेर्ग्रहादिभ्यः' (४।४।३३) इट् । [संशीतिः] 'शीङ्क् स्वप्ने' (११०५) शी, सम्पूर्व० । संशयनं = संशीतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति ॥छ। षितोऽङ् ॥५।३।१०७ ॥ [षितः] ष् इदनुबन्धो यस्य सः = षित्, तस्मात् । [अ] अङ् प्रथमा सि । 'दीर्घङ्याब्'० (१।४।४५) सिलुक् । [पचा] 'डुपचींष् पाके (८९२) पच् । पचनं = पचा । अनेन अप्र० → अ । 'आत्' (२।४।१८) आप्प्र० → आ। [क्षमा] 'क्षमौषि सहने' (७८८) क्षम् । क्षमणं = क्षमा । अनेन अप्र० → अ । 'आत्' (२।४।१८) आप्प्र० → आ। [क्षान्तिः] 'क्षमौच सहने' (१२३५) क्षम् । क्षमा(क्षम)णं = क्षान्तिः । 'स्त्रियां क्ति:' (५।३।९१) क्तिप्र० → ति । 'अहन्पञ्चमस्य'० (४।१।१०७) दीर्घः । [घटा] 'घटिष् चेष्टायाम्' (१०००) घट् । घटनं = घटा । अनेन अप्र० → अ । 'आत्' (२।४।१८) आप्प्र० → आ। [त्वरा] 'जित्वरिष् संभ्रमे' (१०१०) त्वर् । त्वरणं = त्वरा । अनेन अप्र० → अ । 'आत्' (२।४।१८) आप्प्र० → आ। [प्रथा] 'प्रथिष् प्रख्याने' (१००३) प्रथ् । प्रथनं = प्रथा । अनेन अप्र० → अ । 'आत्' (२।४।१८) आप्प्र० → आ। [व्यथा] 'व्यथिष् भय-चलनयोः (१००२) व्यथ् । व्यथनं = व्यथा । अनेन अझ० → अ । 'आत्' (२।४।१८) आप्प्र० → आ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy