SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां दुण्ढिकायां । [ आरूढो वृक्षं भवान् ] 'रुहं जन्मनि' (९८८) रुह, आङ्पूर्व० । आरोहति स्म । अनेन क्तप्र० त । 'हो घुट् पदान्ते' (२|१|८२) ह० द० । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९) त० ध० । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां०' (१।३।६०) ध० → ढ० । 'ढस्तङ्के' (१।३।४२) ढलोपः - पूर्वस्वरस्य दीर्घत्वम् । ८ [ आरूढो वृक्षो भवता] आरुह्यते स्म । क्तप्र० त । 'हो धुट् पदान्ते' 'अधश्चतुर्थात् तथोर्धः' (२२११७९) त० ध० । 'तवर्गस्य श्चवर्ग० ' (१।३।६०) ६० ढलोपः- पूर्वस्वरस्य दीर्घत्वम् । [ आरूढं भवता ] आरोहणम् । 'क्लीबे क्तः' (५।३।१२३) क्तप्र०त । 'हो धुट्पदान्ते' (२२११८२) ह० → ० । 'अधश्चतुर्थात् तथोर्धः ' (२।१७९) । त० ध० । 'तवर्गस्य श्चवर्ग ० ' (१|३|६०) ध० ढ० । 'ढस्तड्डे' (१।३।४२) ढलोप:- पूर्वस्वरस्य दीर्घत्वम् । → ढ० । (२२११८२) ह० ढ० । 'ढस्तड्डे' (१|३|४२) [ अनुजीर्णो वृषलीं चैत्रः ] 'जुष् जरसि' (१९४५) ज्, अनुपूर्व० । अनुप्राप्य जीर्यति स्म । अनेन क्तप्र० त । 'ॠ ल्वादेरेषां तो नोऽप्रः' (४२२६८) त० न० । 'ऋतां क्ङितीर्' (४|४|११६ ) इर् । 'भ्वादेर्नामिनो दीर्घो र्वोर्व्यञ्जने' (२|१|६३) दीर्घः । [ अनुजीर्णा वृषली चैत्रेण] अनुप्राप्य जीर्यते स्म । क्तप्र० त । 'ऋ - ल्वादेरेषां तो नोऽप्रः' (४।२।६८) त० → न० । 'ऋतां क्ङितीर् ' ( ४|४|११६ ) इर् । 'भ्वादेर्नामिनो० ' (२|१|६३) दीर्घः । 'आत्' (२|४|१८) आप्प्र ० आ । [ अनुजीर्णं चैत्रेण] अनुजरणम् । 'क्लीबे क्तः' (५।३।१२३) क्तप्र० त । 'ऋ - ल्वादेरेषां तो नोऽप्र:' ( ४२२६८) त० न० । 'ऋतां क्ङितीर्' (४|४|११६) इर् । 'भ्वादेर्नामिनो० ' (२|१|६३) दीर्घः । [ विभक्ता भ्रातरो रिक्थम् ] 'भजीं सेवायाम्' (८९५) भज्, विपूर्व० । विभजन्ति स्म । अनेन क्तप्र० → त । 'च-ज: क- गम्' (२|१|८६) ज०ग० । 'अघोषे प्रथमोऽशिटः ' (१।३।५०) ग० क० । प्रथमा जस् । [विभक्तं भ्रातृभी रिक्थम् ] विभज्यते स्म । क्तप्र० त । 'चजः क - गम्' (२२११८६) ज० ग० । 'अघोषे प्रथमोऽशिट : ' (१|३|५०) ग० क० । सि-अम् । [ विभक्तं भ्रातृभिः ] विभजनम् । 'क्लीबे क्तः' (५।३।१२३) क्तप्र० त । 'चजः क गम्' (२|१|८६) ज० → To । 'अघोषे प्रथमोऽशिट: ' (१|३|५०) ग० क० । सि-अम् । अकर्मका अपि हि धातव उपसर्गसम्बन्धात् सकर्मका भवन्तीति शीङादिग्रहणम्, अन्यथा अकर्मकत्वादुत्तरेणैव सिद्धम् । श्लिष-भजी केवलावपि सकर्मकौ ॥छ । आरम्भे || ५|१|१० ॥ [ आरम्भे ] आरम्भ सप्तमी ङि । [ प्रकृतः कटं भवान् ] 'डुकृंग् करणे' (८८८) कृ, प्रपूर्व० । कर्तुमारब्धः । अनेन क्तप्र० → त । [ प्रकृतः कटो भवता] कर्तुमारभ्यते स्म । 'क्तक्तवतू' (५/१/१७४) क्तप्र० → त । [ प्रकृतं भवता] प्रक्रियते स्म । 'क्लीबे क्तः' (५।३।१२३) क्तप्र० त । सि-अम् । [ प्रभुक्त ओदनं चैत्रः ] 'भुजंप् पालना - ऽभ्यवहारयोः ' (१४८७) भुज् । प्रभोक्तुमारब्धः । अनेन क्तप्रत । 'च-ज: क-गम्' (२२११८६) ज०ग० । अघोषे प्रथमोऽशिट: ' (१।३।५०) ग० क० । Jain Education International For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy