________________
२००
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृकायां ढुण्ढिकायां ।
भू-श्योरुपसर्गादेवेति नियमार्थ वचनम् ।
[प्रभावः] प्रभवणं = प्रभावः । बहुलाधिकारात् अनेनैव घप्र० → अ । यद्वा प्रकृष्टो भाव इत्यादि प्रादिसमासो वा।
[विभावः] विभवनं = विभावः । बहुलाधिकारात् अनेनैव घञ्प्र० → अ । [अनुभावः ] अनुभवनं = अनुभावः । बहुलाधिकारात् अनेनैव घञ्प्र० → अ । लकारो 'मिग्-मीगोऽखल-चलि' (४।२।८) इत्यत्र विशेषणार्थः ॥छ।।
न्यादो नवा ॥५॥३।२४ ॥
[न्यादः] न्याद प्रथमा सि ।
[नवा] नवा प्रथमा सि ।
[न्यादः ] 'अदंक् भक्षणे' (१०५९) अद्, निपूर्व० । न्यदनं = न्यादः । निपातनात् 'भू-थ्रयदोऽल्' (५।३।२३) अल्प्र० → अ-दीर्घत्वं च ।
[निघसः] नि(न्य)दनं = निघसः । 'भू-,यदोऽल' (५।३।२३) अलप्र० → अ । 'घस्लु सनद्यतनी-घत्रचलि' (४।४।१७) अद्० → घस्तृ० → घस्० ॥छा।
सं-नि-व्युपाद् यमः ॥५॥३।२५ ॥ [संनिव्युपात् ] सम् च निश्च विश्च उपश्च = संनिव्युपम्, तस्मात् । [ यमः ] यम् पञ्चमी ङसि ।
[संयमः, संयामः ] 'यमूं उपरमे' (३८६) यम्, सम्पूर्व० । संयमनं = 'संयमः । अनेन अल्प्र० → अ । पक्षे'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
[नियमः, नियामः] यम्, निपूर्व० । नियमनं = नियमः । अनेन अलप्र० → अ । पक्षे-'भावा-ऽकोंः ' (५।३।१८) घप्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
[वियमः, वियामः ] यम्, विपूर्व० । वियमनं = वियम: । अनेन अल्प्र० → अ । पक्षे - 'भावा-ऽकोंः' (५।३।१८) घञ्प्र० → अ । 'णिति' (४।३।५०) उपान्त्यवृद्धिः आ ।
[उपयमः, उपयामः] यम्, उपपूर्व० । उपयमनं = उपयमः । अनेन अलप्र० → अ । पक्षे - 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः आ ।
नेर्नद-गद-पठ-स्वन-क्वणः ॥५॥३।२६ ॥ [नेः] नि पञ्चमी ङसि । [नदगदपठस्वनक्वणः] नदश्च गदश्च पठश्च स्वनश्च क्वण च = नदगदपठस्वनक्वण, तस्मात् ।
[निनदः, निनादः ] 'णद अव्यक्ते शब्दे' (२९९) णद् । 'पाठे धात्वादेर्णो नः' (२।३।९७) नद्, निपूर्व० । निनदनं = निनदः । अल्प्र० । एवम् - निनादः । 'भावा-ऽकोंः ' (५।३।१८) घञ्प्र० → अ । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । एवमग्रेऽपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org