SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य द्वितीयः पादः॥ १६५ [विकत्थी] 'कत्थि श्लाघायाम्' (७१९) कत्थ्, विपूर्व० । विकत्थत इत्येवंशीलः = विकत्थी । अनेन घिनणप्र० → इन् । [वित्रम्भी] 'स्रम्भूङ् विश्वासे' (९५१) सम्भ, विपूर्व० । विस्रम्भत इत्येवंशीलः = विस्रम्भी । अनेन घिनण्प्र० ___[विकाषी ] 'कष हिंसायाम्' (५०७) कष्, विपूर्व० । विकषतीत्येवंशीलः = विकाषी । अनेन घिनणप्र० → इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । [विकासी] 'कस गतौ' (९८७) कस्, विपूर्व० । विकसतीत्येवंशीलः = विकासी । अनेन घिनणप्र० → इन् । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः आ । [विलासी] 'लस श्लेषण-क्रीडनयोः' (५४३) लस्, विपूर्व० । विलसतीत्येवंशीलः = विलासी । अनेन घिनण्प्र० → इन् । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः आ । [विघाती ] 'हनंक हिंसा-गत्योः' (११००) हन्, विपूर्व० । विहन्तीत्येवंशीलः = विघाती । अनेन घिनणप्र० → इन् । 'ञ्णिति घात्' (४।३।१००) घात्० ॥छ।। व्यपा-ऽभेर्लषः ॥५।२।६० ॥ [व्यपाऽभेः] विश्च अपश्च अभिश्च = व्यपाऽभि, तस्मात् । [लषः ] लष् पञ्चमी ङसि । [विलाषी] 'लषी कान्तौ' (९२७) लष्, विपूर्व० । विलषतीत्येवंशीलः = विलाषी । [अपलाषी] अपलषतीत्येवंशीलः = अपलाषी । [अभिलाषी] अभिलषतीत्येवंशीलः = अभिलाषी । अनेन सर्वत्र घिनण्प्र० → इन् । 'णिति' (४।३५०) उपान्त्यवृद्धिः आ ॥छ। सम्-प्राद् वसात् ॥ ५२।६१ ॥ [सम्प्रात् ] सम् च प्रश्च = तत्, तस्मात् । [वसात्] वस पञ्चमी ङसि । [संवासी] वसं निवासे' (९९९) वस्, सम्पूर्व० । संवसतीत्येवंशीलः = संवासी । अनेन घिनणप्र० → इन् । 'णिति' (४।३।५०) उपान्त्यवृद्धिः आ । [प्रवासी ] प्रवसतीत्येवंशीलः = प्रवासी । अनेन घिनणप्र० इन् । “णिति' (४।३।५०) उपान्त्यवृद्धिः आ । शनिर्देशाद् वस्तेन भवति ॥छा। ___समत्यपाऽभि-व्यभेश्चरः ॥ ५।२।६२ ॥ [समत्यपाऽभिव्यभेः] सम् च अतिश्च अपश्च अभिश्च व्यभिश्च = समत्यपाऽभिव्यभि, तस्मात् । [चरः] चर् पञ्चमी ङसि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy