SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य द्वितीयः पादः ॥ १६३ [प्रलापी] रप (३३५) - 'लप व्यक्ते वचने' (३३६) लप्, प्रपूर्व० । प्रलपतीत्येवंशीलः = प्रलापी । अनेन घिनणप्र० →इन् । 'ञ्णिति' (४।३५०) उपान्त्यवृद्धिः आ ॥छ।। वेश्च द्रोः ॥ ५।२।५४ ॥ [वेः] वि पञ्चमी ङसि । 'ङित्यदिति' (१।४।२३) ए । एदोद्भ्यां ङसि-ङसो रः (१।४।३५) ङसि० → र० । [च] च प्रथमा सि । [द्रोः] 2 पञ्चमी ङसि । [विद्रावी ] इं (११) - दुं (१२) - ‘टुं गतौ' (१३) द्रु, विपूर्व० । विद्रवतीत्येवंशीलः = विद्रावी । अनेन घिनणप्र० → इन् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् । [प्रद्रावी ] प्रद्रवतीत्येवंशीलः = प्रद्रावी । अनेन घिनण्प्र० → इन् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृ० औ । 'ओदौतोऽवाव्' (१।२।२४) आव् ॥छ। वि-परि-प्रात् सर्तेः ॥ ५।२।५५ ॥ [विपरिप्रात्] विश्च परिश्च प्रश्च = तत्, तस्मात् । [ सर्तेः ] सर्ति पञ्चमी ङसि । [विसारी ] 'सं गतौ' (२५) सृ, विपूर्व० । विसरतीत्येवंशीलः = विसारी । अनेन घिनण्प्र० → इन् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । [परिसारी] परिसरतीत्येवंशीलः = परिसारी । अनेन घिनण्प्र० → इन् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । [प्रसारी] प्रसरतीत्येवंशीलः = प्रसारी । अनेन घिनण्प्र० → इन् । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् ॥छ। समः पृचैप्-ज्वरः ॥ ५।२।५६ ॥ [समः] सम् पञ्चमी ङसि ।। [पृचैप्ज्वरेः ] पृचैप् च ज्वरिश्च = पृचैप्ज्वरि, तस्मात् । [संपर्की ] सम् 'पृचैप् संपर्के' (१४८२) पृच् । 'संपृणक्तीत्येवंशीलः = संपर्की । अनेन घिनण्प्र० → इन् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'क्तेऽनिटश्च-जोः'० (४।१।१११) च० → क० । पिन्निर्देशाददादिकस्य - [संपर्चिता] सम् 'पृचैङ् संपर्चने' (११०८) पृच् । संपृक्त इत्येवंशीलः = संपचिंता । 'तृन् शील-धर्म-साधुषु' (५।२।२७) तृन्प्र० → तृ । 'स्ताद्यशितो'० (४।४।३२) इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० अर् । 'दिर्ह-स्वरस्याऽनु नवा' (१।३।३१) द्वित्वम् । [संज्वारी] सम् 'ज्वर रोगे' (१०५४) ज्वर् । संज्वरतीत्येवंशीलः = संज्वारी । अनेन घिनण्प्र० → इन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy