SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ पञ्चमाध्यायस्य प्रथमः पादः ॥ [ डः ] ड प्रथमा सि । अ । [ पुमनुज:] अनु 'जनैचि प्रादुर्भावे' (१२६५) जन् । पुमांसमनुजातः = पुमनुजः । अनेन डप्र० →>> 'डित्यन्त्यस्वरादेः' (२|१|११४) अन्लुक् । 'पदस्य' (२२११९८) पुम्स्संबंधिनः सकारस्य लुक् । अ । 'डित्यन्त्यस्वरादेः' (२|१|११४) [ स्त्र्यनुजः ] स्त्रियं स्त्रीं वा अनुजातः = स्त्र्यनुजः । अनेन डप्र० अन्लुक् । [ आत्मानुजः ] आत्मानमनुजातः = आत्मानुजः । अनेन डप्र० अन्लुक् । अनुपूर्वो जनिर्जननोपसर्जनायां प्राप्तौ वर्त्तमानः सकर्मकः ॥छ । - Jain Education International सप्तम्याः || ५|१|१६९ ॥ [ सप्तम्याः ] सप्तमी पञ्चमी ङसि । [ उपसरज: ] उपसरे जातः = उपसरजः । [ मन्दुरज: ] मन्दुरायां मन्दुरे वा जातः = मन्दुरजः । स्त्रीपक्षे 'यापो बहुलं नाम्नि ' (२।४।९९) हुस्व: । [ अप्सुजम्, अब्जम् ] अप्सु जातं अप्सुजम्, अब्जम् । सर्वत्र अनेन डप्र० → अ । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्लुक् । 'वर्ष-क्षर - वरा - ऽप् - सरः- शरोरोमनसो जे' ( ३।२।२६ ) इत्यादिना विकल्पेन सप्तम्या अलुप् । सि-अम् । = ->> = ११७ अजातेः पञ्चम्याः || ५|१|१७० ॥ [ अजाते: ] न जाति: अजाति:, तस्मात् (?) ( तस्याः) । [ पञ्चम्याः ] पञ्चमी पञ्चमी ङसि । 'स्त्रीदूत: ' (१।४।२९) दास्० आस्० । [ बुद्धिजः संस्कारः ] बुद्धेर्जातः = बुद्धिजः संस्कारः । [ संस्कारजा स्मृति: ] संस्काराज्जाता = संस्कारजा स्मृतिः । [ संतोषजं सुखम् ] संतोषाज्जातं = संतोषजं सुखम् । [ कौशल्याजः ] कोशलस्याऽपत्यं स्त्री = कौशल्या । 'दु- नादि - कुर्वित्- कोशला - ऽजादाञ्ज्ञ्यः' (६|१|११८) ञ्यप्र० → य । 'वृद्धिः स्वरेष्वादे० ' (७|४|१) वृद्धिः औ । 'अवर्णेवर्णस्य' (७|४|६८) अलुक् । 'आत्' (२|४|१८) आप्प्र० → आ । कौशल्याया जातः = कौशल्याजः । अनेन सर्वत्र डप्र० अ ' डित्यन्त्यस्वरादेः ' (२|१|११४) अन्लुक् । ननु गोत्रं च चरणैः सहेति जातित्वे डो न प्राप्नोति अतोऽत्र कथम् ? इत्याह- संज्ञाशब्दोऽत्रोपपदम् ॥छ|| क्वचित् ||५|१|१७१ ॥ [ क्वचित् ] क्वचित् प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् । पञ्चम्यन्तात् सप्तम्यन्ताच्चान्यतोऽपि । अ । 'डित्यन्त्यस्वरादेः' (२|१|११४) For Private Personal Use Only www.jainelibrary.org
SR No.003295
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 05
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2012
Total Pages400
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy