________________
अथ चतुर्थाध्यायस्य द्वितीयः पादः ||
[अगुः] 'इंण्क् गतौ' (१०७५ ) इ । अद्यतनी अन् । 'इणिकोर्गा' (४।४।२३) इ० "गा" आदेशः । प्रथमं सिच्प्र० ततो गा० । ‘पिबैति-दा-भू-स्थः सिचो लुप् परस्मै न चेट्' (४।३।६६) अत्र अग्रेतनेषु च सिज्लुक् (प्) पूर्वमनेन अन्० पुस्० उस्० । 'इडेत्-पुसि० ' ( ४।३।९४) आलोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अदुः] ‘डुदांग्क् दाने’ (११३८ ) दा । अद्यतनी अन् । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । अनेन अन्० → पुस्० → उस्० । 'पिबैति-दा-भू-स्थः सिचो लुप्०' (४।३।६६) सिज्लुप् । 'इडेत्-पुसि चाऽऽतो लुक् (४।३।९४) आलोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
७५
[ अधुः ] 'डुधांग्क् धारणे च' (११३९) धा । अद्यतनी अन् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । अनेन अन्० → पुस्० → उस्० । 'पिबैति - दा भू-स्थः सिचो लुप्०' (४।३।६६) सिज्लुप । 'इडेत् - पुसि चाऽऽतो लुक्' (४।३।९४) आलोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अपु ] 'पां पाने' (२) पा । अद्यतनी अन् । 'सिजद्यतन्याम्' (३|४|५३) सिच् । अनेन अन्० पुस् उस्० । ‘पिवैति-दा-भू-स्थः सिचो लुप्०' ( ४ | ३ |६६) सिज्लुप् । 'इडेत्-पुसि० ' ( ४।३।९४) आलोपः । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अस्थुः ] 'ष्ठां गतिनिवृत्तौ ' (५) ष्ठा । षः सोऽष्ट्यै- ष्ठिव-ष्वष्कः' (२।३।९८) स्था । 'निमित्ताभावे नैमित्तिकस्याप्यभावः' (न्या० सं० वक्षस्कार (१ ) / सूत्र (२९)) स्था । अद्यतनी अन् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । अनेन अन्० पुस्० → उस्० । ‘पिबैति-दा-भू-स्थः सिचो लुप्०' ( ४ | ३ |६६ ) सिज्लुप् । 'इडेत्-पुसि० ' ( ४ | ३ |९४) आलोपः । 'अड्ο' (४।४।२९) अट् ।
[अविदुः, अविदन्नित्यपि कश्चित् ] 'विदक् ज्ञाने' (१०९९) विद् । अद्यतनी (?) (ह्यस्तनी) अन् । मतान्तरे वा अनेन पुस् । 'अड्०' (४।४।२९) अट् ।
[अभूवन् ] 'भू सत्तायाम् ' (१) भू । अद्यतनी अन् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'पिबैति-दा-भू०' (४।३।६६) सिज्लुप् । ‘धातोरिवर्णोवर्णस्येयुव्०' (२।१।५०) उद् । 'भुवो वः परोक्षा - ऽद्यतन्योः' (४।२।४३) ऊ० । 'अड् धातोरादि० ' (४।४।२९) अट् ||छ।
द्वयुक्त - जक्षपञ्चतः ||४।२१९३ ॥
[द्व्युक्तजक्षपञ्चतः ] द्वे उक्ते यस्य सः = युक्तः । पञ्चन् । पञ्च संख्या मानमस्याऽसौ पञ्चत् । पञ्चद्-दशद् वर्गे वा' (६।४।१७५) पञ्चन्निपात्यते । जक्षाणां पञ्चत् = जक्षपञ्चत्, द्व्युक्तश्च जक्षपञ्चच्च = द्वयुक्तजक्षपञ्चत् तस्मात् ।
[अजुहवुः ] 'हुंक् दाना- Sदनयोः ' (११३०) हु । ह्यस्तनी अन् । 'हवः शिति' ( ४।१।१२ ) " हु 'द्विः । 'ग-होर्जः' (४।१।४०) ह० → ज० । अनेन पुस्० । 'पुस्- पौ' (४।३।३) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । 'अड् धातोरादि०' (४।४।२९) अट् ।
[अबिभयुः ] 'ञिर्भीक् भये' (११३२) भी । ह्यस्तनी अन् । 'हवः शिति' ( ४।१।१२) “ भी द्विः । ' ह्रस्वः' ( ४|१|३९ ) ह्रस्वः । ‘द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) भ० ब० । अनेन पुस्० । ' पुस्- पौ' (४।३।३) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । 'अड् धातोरादि०' (४।४।२९)
अट् ।
P. पञ्चेति संख्यामानमस्य पञ्चानां वर्गो वा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org