________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [वावहि] अयि (७९०) - 'वयि गतौ ' ( ७९१) वय् । भृशं पुनः पुनर्वा वयते । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४१९) यप्र० । द्विः । ‘आ-गुणावन्यादेः' (४।१।४८) आ । 'बहुलं लुप्' ( ३।४।१४ ) यड्लुप् । पञ्चमी हि । 'खोः प्वय्व्यञ्जने लुक्' (४|४|१२१) यलुक् ॥ छ।
७०
असंयोगादोः || ४|२|८६ ॥
[ असंयोगादोः ] न संयोगः = असंयोगस्तस्मात् । उ पञ्चमी ङसि । 'डित्यदिति' (१।४।२३) ओ । 'एदोद्भ्यां इसि - डसो रः' (१।४।३५) र० । 'रः पदान्ते विसर्गस्तयोः ' (१।३।५३) विसर्गः । 'धुटस्तृतीयः' (२।१।७६) त०
द० ।
[सुनु] 'पुंग्ट् अभिषवे' (१२८६ ) षु । ' षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सु । पञ्चमी हि । ' स्वादेः श्नुः ' (३।४।७५) श्नुप्र० नु । अनेन हिलोपः ।
[चिनु] 'चिंग्ट् चयने' (१२९० ) चि । पञ्चमी हि । 'स्वादेः श्नुः' (३।४।७५ ) श्नुप्र० नु । अनेन हिलोपः । [तनु] 'तनूयी विस्तारे' ( १४९९ ) तन् । पञ्चमी हि । 'कृग्-तनादेरुः ' ( ३।४।८३) उप्र० । अनेन हिलोपः ।
[कुरु] 'डुकंग करणे' (८८८) कृ । पञ्चमी हि । 'कृग्-तनादेरुः ' ( ३।४।८३) उप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'अतः शित्युत्' (४।२।८९) अ० उ० । अनेन हिलोपः ।
[ अर्णुहि ] 'ऋणूयी गतौ' (१५०३ ) ऋण्
(४।३।४) गु० अर् ।
। पञ्चमी हि । 'कृग् - तनादेरु : ' ( ३ | ४ | ८३) उप्र० । 'लघोरुपान्त्यस्य'
[अक्ष्णुहि ] 'अक्षौ व्याप्तौ च' (५७० ) अक्ष् । पञ्चमी हि । 'वाऽक्षः' (३।४।७६) श्नुप्र० नु । 'र-वर्णान्न ण एकपदेऽनन्त्यस्याऽल-च-ट-तवर्ग-श-सान्तरे' (२।३।६३) न० ण० ।
[आप्नुहि] 'आप्लृट् व्याप्तौ ' (१३०७) आप् । पञ्चमी हि । 'स्वादेः श्नुः' (३।४।७५) श्नुप्र० → नु । [राध्नुहि ] 'राधं संसिद्धौ' (१३०४ ) राधू । पञ्चमी हि । ' स्वादेः श्नुः' (३।४।७५ ) श्नुप्र०
नु ।
[क्रीणीहि ] ( ४।२।८३) सूत्रवत् ।
[हि ] 'युक् मिश्रणे' (१०८०) यु । पञ्चमी हि ।
[ रुहि ] टुक्षु ( १०८४) 'रु शब्दे' (१०८५) रु । पञ्चमी हि ||छ ।
वम्यविति वा ||४१२ । ८७ ।।
[वमि] वश्च म् च = वम्, तस्मिन् ।
[ अविति] व् इदनुबन्धौ यस्य सः = [C] वा प्रथमा सि ।
[सुन्वः, सुनुवः ] 'पुंग्ट् अभिषवे ' (१२८६ ) षु । ' षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सु । वर्त्त० वस् । 'स्वादेः धनु:' (३।४।७५) श्नुप्र० नु । अनेन उकारस्य वा लोपः ।
इदमुदाहरणं बृहद्वृत्ती नास्ति ।
Jain Education International
वित्, न वित् = अवित्, तस्मिन् ।
For Private & Personal Use Only
www.jainelibrary.org