________________
श्री सिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
ऊ
च च्छ्-वः शूट्' (४।१।१०८) व० ऊ । 'इवर्णादिरस्वे स्वरे० ' (१।२।२१) यत् । न द्यूतमद्यूतम् । अपादीयते यस्मात् तदपादानम् । 'भुजि - पत्यादिभ्यः कर्माऽपादाने' (५।३।१२८) अनट्प०अन । न अपादानमनपादानम् । नाशश्च अद्यूतं च अनपादानं च = नाशाद्यूतानपादानम्, तस्मिन् ।
६२
[पूना यवाः] 'पुङ् पवने' (६००) पू । 'पूगश् पवने' ( १५१८) पू । पवन्ते स्म । पुनन्ति स्म । 'गत्यर्था-ऽकर्मकपिब-भुजे : ' ( ५1१1११) क्तप्र० त । 'उवर्णात्' (४।४।५८) इग्निषेधः । प्रथमा जस् । यव प्रथमा जस् । विनष्टा इत्यर्थः । [आद्यूनः ] 'दिवूच् क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिपु' (११४४) दिव्, आङ्पूर्व० । आदीव्यति स्म । 'गत्यर्थाSकर्मक०' (५1१1११) क्तप्र० त । अनेन त० न० । 'अनुनासिके च च्छ् वः शूटू' (४।१।१०८) ऊट् । 'इवर्णादेरस्वे स्वरे०' (१।२।२१ ) य० ।
[परिद्यूनः ] परिदीव्यति स्म । 'गत्यर्था - ऽकर्मक०' (५1१199) प्र० तं । शेषं पूर्ववत् ।
[समवनौ शकुनेः पक्षी ] 'अशू गतो च' (१०५) अञ्च्, सम्पूर्व० । समच्येते स्म । 'गत्यर्था - ऽकर्मक- पिव-भुजेः ' (५।१।११) क्तप्र० → त । 'च-जः क गम्' (२।११८६) च० क० । अनेन त० न० । 'अञ्चोऽनर्थायाम्' ( ४ |२| ४६ ) नलोपः । औ । सङ्गतावित्यर्थः ।
[पूतं धान्यम्] पू । पवनं = पूतम् । 'क्लीवे क्तः ' ( ५|३|१२३) प्र० → त ।
[ द्यूतं वर्त्तते] दिव् । देवनं द्यूतम् । 'क्लीवे क्तः' (५।३।१२३) क्तप्र० (४/१/१०८) व० ऊ ऊ । 'इवर्णादेरस्वे स्वरे० ' (१।२।२१) य० ।
[ उदक्तमुदकं कूपात् ] * उदच्यते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० त । अञ्चोऽनर्थायाम्' (४१२।४६) नलोपः । 'न-जः क गम्' (२।११८६) च० क० । सि अम् ।
[व्यक्तम् ] 'अप् व्यक्ति-प्रक्षण गतिषु' (१४८८) असू, विपूर्व० । व्यज्यते स्म । 'क्त-क्तवतू' (५।१।१७४) रूप० → त । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलोपः । 'च-जः क गम्' (२।११८६) ज०ग० । 'अघोषे प्रथमोऽशिट: ' (१।३।५०) ग० क० । सि अम् ||छ ||
सेग्रसि कर्मकर्तरि ||४|२॥ ७३ ॥
[से:] सि पञ्चमी इसि ।
[ग्रासे] ग्रास सप्तमी ङि ।
[ कर्मकर्तरि ] कर्म चासौ कर्त्ता च = कर्मकर्त्ता, तस्मिन् ।
[सिनो ग्रासः स्वयमेव ] 'पिंग्ट् बन्धने' (१२८७) पि । 'पः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सि । सिनोति स्म ग्रासं देवदत्तः, स एवं विवक्षिते नाहं सिनोमि, किन्तु + सीयते ग्रासः स्वयमेव । 'गत्यर्था ऽकर्मक-पिव-भुजेः' (५1१199) क्तप्र० → त । अनेन त० न० । स्वयमेव संवद्ध इत्यर्थः । एवं “सितं कर्म स्वयमेव" ।
[ सितो ग्रासो मैत्रेण] सीयते स्म । तप० ||छ ।!
P.
P. *
समञ्चतः स्म । उदञ्चति स्म ।
त । अनुनासिके च च्छ्र-वः शूट'
Jain Education Intemational
P. सिनो ।
For Private & Personal Use Only
www.jainelibrary.org