________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
[रीणः, रीणवान] 'रीच स्रवणे' (१२४७) री । रीयते स्म ।
[लीनः, लीनवान्] 'लींच् श्लेषणे' (१२४८) ली । लीयते स्म । [डीनः, डीनवान्] ‘डीच् गतौ' (१२४९) डी । डीयते स्म ।
वीणः, वीणवान] 'वींच वरणे' (१२५०) वी । वीयते स्म । सर्वत्र 'क्त-क्तवतू' (५।१११७४) क्तप० → त, क्तवतुप्र० → तवत् । अनेन तस्य न० । 'र-पृवर्णान्नो ण एकपदेऽनन्त्यस्या-उल-च-ट-तवर्ग-श-सान्तरे' (२।३।६३) न० → ण० ।
लग्नः] ओलजैङ (१४६९) - 'ओलस्जैति वीडे' (१४७०) लस्ज । लज्जते स्म । 'गत्यर्था-ऽकर्मक-पिब-भूजेः' (५।१११) क्तप्र० → त । 'संयोगस्यादौ स्कोलुंक' (२।१।८८) सलुक् । 'च-जः क-गम्' (२।१९८६) ज० → ग० । अनेन तस्य न० ।
[लग्नवान] लस्ज् । लज्ज्यते स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् । 'संयोगस्यादौ स्कोर्लुक' (२।११८८) सलुक् । 'च-जः क गम्' (२।१।८६) ज० → ग० । अनेन तस्य न० ।
[उद्विग्नः, उद्विग्नवान] 'ओविजैति भय-चलनयोः' (१४६८) विज, उतपूर्व० । उद्विजते स्म । उद्विज्यते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० → त, क्तवतुप्र० → तवत् । 'च-जः क-गम्' (२।१८६) ज० → ग० । अनेन तस्य न० ।
[पीनः] स्फायैङ (८०४) .. 'ओप्यायै वृद्धौ' (८०५) प्याय । प्यायते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप० → त । ‘क्तयोरनुपसर्गस्य' (४।१।९२) प्याय० → “पी" आदेशः । अनेन तस्य न० ।
_ [पीनवान्] प्याय् । प्याय्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप० → तवत् । 'क्तयोरनुपसर्गस्य' (४।१।९२) प्याय० → “पी" आदेशः । अनेन तस्य न० ।
शूनः] 'ट्वोश्चि गति-वृद्धयोः' (९९७) श्चि । शूयते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० → त । 'यजादि वचे: किति' (४११७९) वृत । दीर्धमवोऽन्त्यम्' (४११०३) दीर्घः । अनेन तस्य न० ।
[शूनवान] श्चि । श्वयति स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् । 'यजादि-वचेः किति' (४।११७९) वृत् । दीर्घमवोऽन्त्यम' (४११०३) दीर्घः । अनेन तस्य न० ।
[वृक्णः] 'ओव्रस्चौत् छेदने' (१३४१) व्रस्च् । वृश्च्यते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । 'संयोगस्यादौ०' (२।१।८८) सलुक् । अनेन तस्य न० । 'ग्रह-व्रस्च-भ्रस्ज-प्रच्छः' (४।१।८४) य्वृत् । 'च-जः क-गम्' (२।१।८६) च० → क० ।
[वृक्णवान्] वस्च् । वृश्चति स्म । ‘क्त क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । 'संयोगस्यादौ स्कोर्लुक्' (२।१।८८) सलुक् । अनेन तस्य न० ॥छ।।
व्यञ्जनान्तस्थातोऽख्या-ध्यः ।।४।२।७१।। [व्यञ्जनान्तस्थातः] व्यञ्जनात् अन्तस्था(:) = व्यञ्जनान्तस्था(:), व्यञ्जनान्तस्थाया आत् = व्यञ्जनान्तस्थात्, तस्मात् ।
[स्त्यानः, स्त्यानवान] प्ट्य (३९) - स्त्य सङ्घाते च (४०) स्त्यै । ‘आत् सन्ध्यक्षरस्य' (४।२।१) स्त्या । स्त्यायति स्म । 'गत्यर्था०' (५।१।११) क्तप्र० → त । ‘क्त क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । अनेन तस्य न० ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org