SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥ ५९ [ मत्तवान् ] माद्यति स्म । क्तक्तवतू' (५।१।१७४) क्तवतुप्र० तवत् । 'अघोषे प्रथमोऽशिट : ' (१।३।५०) द० → त० । सर्वत्र प्रथमा सि । 'ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घड्याब् (१।४।४५) सिलोपः । 'पदस्य' (२।१।८९) तलोपः । [ कार्तिः] कृत । कृतस्याऽपत्यम् । 'अत इञ्' (६।१।३१) इञ्प्र० इ । 'वृद्धिः स्वरेष्वादेर्जिणति तद्धिते' (७|४|१) वृद्धिः आर् । 'अवर्णेवर्णस्य' (७।४।६८) अलोपः इत्यत्र 'असिद्धं बहिरङ्गमन्तरङ्गे' (न्या० सं० वक्ष० (१) / सूत्र ( २० ) ) इति न्यायात् अन्तरङ्गे नत्वे कर्त्तव्ये आर् न भवति । [चूर्तिः ] 'चर भक्षणे च' (४१०) चर । चरणं उ० । = चूर्तिः । क्तिप्र० । 'ति चोपान्त्याऽतोनोदुः' (४।१।५४) अ० → [ भित्तिः ] भिद् । भेदनम् । क्तिप्र० । [चूर्णिः ] 'चूरेचि दाहे' (१२७५) चूर् । चूरणं = चूर्णि: । चूर्यते दाते शास्त्रसंदेहोऽस्यामिति चूर्णि: । 'का-वा-वीक्री- श्रि-क्षु ज्वरि तूरि-चूरि-पूरिभ्यो णि:' (उणा० ६३४) णिप्र० । [चरितम् ] 'चर भक्षणे च' (४१०) चर् । चरणम् । 'क्लीवे क्तः' (५।३।१२३) क्तप्र० त । 'स्ताद्यशितोऽत्रोणादेरिट्' ( ४/४/३२) इट् । [मुदितम् ] 'मुदि हर्षे' (७२६ ) मुद् । मोदनम् । 'क्लीबे क्तः ' ( ५|३|१२३) क्तप्र० त । स्ताद्यशितोऽत्रोणादेरिट्' (४/४/३२) इट् । [कृतः कृतवान् ] 'डुकृंग् करणे' (८८८) कृ । क्रियते स्म । करोति स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० त, क्तवतुप्र० → तवत् इत्यत्र वर्णैकदेशानां ऋकारादिसंबंधिनां वर्णग्रहणेनाग्रहणान्न भवति । [चीर्ण:, चीर्णवान् ] चूत् आवरणे ( ) चु । चर्यति (ते) स्म । चरति स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० → त क्तवतुप्र० → तवत् । 'ऋतां विडतीर्' (४|४|११६) इर् । 'भ्वादेर्नामिनो० ' (२।१।६३) दीर्घः । 'स्पृवर्णान्नो ण०' (२।३।६३) न० - ० । चू इति धात्वन्तरं चरति समानार्थं क्त क्तवतुविषयमामनन्ति ।।छ।। सूयत्याद्योदितः || ४|२।७० ।। = [सूयत्याद्योदितः ] सूयतिरादिर्येषां ते = सूयत्यादयः, ओत् इदनुवन्धो येषां ते सूयत्याद्योदित्, तस्मात् । [सून, सूनवान् ] 'पूडौच् प्राणिप्रसवे' (१२४२) पू । पः सोऽष्ट्यै- ष्ठिव-ष्वष्कः ' (२।३।९८) सू । सूयते स्म । [दूनः, दूनवान् ] 'दूङ्च् परितापे' (१२४३) दू । दूयते स्म । [दीनः, दीनवान् ] 'दींङ्च् क्षये' (१२४४) दी । दीयते स्म । [धीनः, धीनवान्] 'धींच् अनादरे ' (१२४५) धी । धीयते । [मीन:, मीनवान् ] 'मींच हिंसायाम् ' (१२४६) मी । मीयते स्म । Jain Education International उक्तं च 'शिष्टनामनिष्पत्तिप्रयोगधातूनां सौत्रत्वाल्लक्ष्यानुरोधाद् वा सिद्धि:' (न्या० सं० वक्ष० (४) / सूत्र ( १ ) ) इति न्याये "चू - भक्षणगत्योः' इति चरतिसमानार्थोऽयमन्य एवं धातुः क्तक्तवतुविषयत्वेन कैश्चित् स्मर्यते । उक्तश्चायमर्थः 'रदादमूर्छ- मदः ० ' ( ४१२१६९ ) इत्यस्य वृत्ती । ओदितः सूयत्यादयश्च ओदितश्च For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy