________________
५६
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
अपाच्चायश्चिः क्तौ ।।४।२।६६॥ [अपात्] अप पञ्चमी डसि । [चायः] चाय षष्ठी डस् । [चिः] चि प्रथमा सि । [क्तौ] क्ति सप्तमी ङि । [अपचितिः] 'चायुग पूजा-निशामनयोः' (९१७) चाय, अपपूर्व० । अपचायनमपचितिः । 'स्त्रियां क्तिः' (५।३।९१) → ति । अनेन चाय० → चि० ।छ।।
क्तिप्र०
ह्लादो हृद् क्तयोश्च ।।४।२।६७।। [हादः] हाद् षष्ठी ङस् । [हृद्] हृद् प्रथमा सि । [क्तयोः] क्तिश्च क्तश्च (क्तवांश्च) = क्तौ, तयोः = क्तयोः । ‘स्यादावसंख्येयः' (३।१।११९) क्तिलोपः । सप्तमी ओस । [च] च प्रथमा सि ।
[लन्नः] ‘हादैङ् सुखे च' (७३८) ह्राद् । ह्रादते स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त । अनेन "हृद्" आदेशः । 'रदादमूर्छ-मदः क्तयोर्दस्य च' (४।२।६९) द-त० → न० ।
[हन्नवान्] ह्लादते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । अनेन ‘हृद्' आदेशः । ‘रदादमूर्छ-मद:०' (४।२।६९) द-त० → न० ।
__ [प्रहन्नः, प्रहन्नवान्] प्रह्लादते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप०→त-क्तवतुप्र० → तवत् । अनेन "ह्रद्" आदेशः । 'रदादमूर्छ०' (४।२।६९) द-त० → न० ।
[हृत्तिः] ह्वादनं = हत्तिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन हद् । 'अघोषे प्रथमोऽशिटः' (१।३।५०) द० → त० ।
प्रहत्तिः] प्रह्लादनं = प्रहत्तिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० →ति । अनेन हद । 'अघोषे प्रथमोऽशिट:' (१।३।५०) द० → त० ।
[हादित्वा] हादनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । ‘स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् ।।छ।।'
ऋ-ल्वादेरेषां तो नोऽप्रः ।।४।२।६८।।
[ऋल्वादेः] लूरादिर्यस्याऽसौ ल्वादिः, ऋश्च ल्वादिश्च = ऋल्वादिः, तस्मात् ।
[एषाम् इदम् । षष्ठी आम् । 'आ ढेरः' (२११४१) म० → अ० । 'लुगस्यादेत्यपदे' (२११११३) अलोपः । 'अवर्णस्याऽऽमः साम्' (१।४।१५) आम्० → साम्० । 'अनक्' (२।१।३६) अ० । 'एद् बहुस्भोसि' (१।४।४) अ० → ए० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org