SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥ ५५ mamwwwmummon = सतिः । 'तिक्कृतौ नाम्नि' (५१.७१) तिकप्र० → ति । प्रथमे नलोपः । द्वितीये आ० । 'तृतीये म्नां धुडवर्गेऽन्त्योऽपदान्ते' (१।३।३९) न० → न० । - सतिः, सातिः, सान्तिः] वन (३२९) - 'षण संभक्तौ' (३३०) षण् । 'षः सोऽष्ट्य-ष्ठिव-ष्वष्कः' (२०३९८) सन् । सन्यादित्याशास्यमाना । 'तिक्कृतौ नाम्नि' (५।१७१) तिकप० → ति । अनेन नलोपः - आ० । 'अहन्पञ्चमस्य क्वि-क्डिति' (४।१।१०७) दीर्घः । 'म्नां धुड्वर्गेऽन्त्योऽपदान्ते' (१।३।३९) न० → न० छ।। वन्याङ् पञ्चमस्य ।।४।२।६५।। [वनि] वन् सप्तमी ङि । [आङ्] आश्चासौ आङ् च = आङ् । प्रथमा सि । [पञ्चमस्य] पञ्चानां पूरणः = पञ्चमः । 'नो मट्' (७।१।१५९) मट्प्र० → म, तस्य । अन्यथा 'लि लौ' (११३६५) इत्यनेन हि तवर्गस्य सानुनासिकस्य सानुनासिकः-निरनुनासिकः, निरनुनासिकस्य निरनुनासिकः, द्विवचनसामर्थ्यात, अन्यत्तु सानुनासिकस्यापि निरनुनासिक एव भवति । 'वाष्टन आः स्यादौ' (१।४।५२) इत्यनेन सानुनासिकस्य निरनुनासिक एव । [विजावा] 'जनैचि प्रादुर्भावे' (१२६५) जन्, विपूर्व० । विजायत इति । 'मन्-वन्-क्वनिप्-विच् क्वचित्' (५।१।१४७) वन्प० । अनेन न० → आ० । प्रथमा सि । 'नि दीर्घः' (१।४।८५) दीर्घः । [विखावा] ‘खनूग् अवदारणे' (९१३) खन्, विपूर्व० । विखायत इति । ‘मन्-वन्०' (५।१।१४७) वन्प० । अनेन न० → आ० । [दधिक्रावा] दधि 'क्रमू पादविक्षेपे' (३८५) क्रम् । दधि क्रामति । 'मन्-वन्०' (५।१।१४७) वन्प्र० । अनेन म० → आ० । [अग्रेगावा अग्रे अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीमृ (३९५) - 'गम्लुं गतौ (३९६) गम् । अग्रे गच्छतीति । 'तत्पुरुषे कृति' (३।२।२०) अलुप्समासः । ‘मन्-वन्-क्वनिप्०' (५।१।१४७) वन्प्र० । अनेन म० → आ० । [ध्वावा] 'घुण भ्रमणे' (१३६७) घुण । घुणतीति । 'मन-वन्०' (५1१1१४७) वनप० । अनेन ण० → आ० । 'इवर्णादरस्वे स्वरे०' (१।२।२१) व० । [घूरावा] घुण (१३६७) - 'घूर्णत् भ्रमणे' (१३६८) घूर्ण । घूर्णतीति । 'मन्-वन्०' (५।१।१४७) वन्प्र० । अनेन ण० → आ० । [अवावा] 'ओण अपनयने' (२७३) ओण् । ओणतीति । ‘मन्-वन्-क्वनिप्०' (५।१।१४७) वन्प्र० । अनेन ण० → आ० । 'ओदौतोऽवाव्' (१।२।२४) अव् । [यावा] ‘इवु व्याप्तौ च' (४८८) इव् । 'उदितः स्वरान्नोऽन्तः' (४।४।९८) इन्व् । इन्वतीति । ‘मन्-वन्०' (५।१।१४७) वन्प्र० । “य्वोः प्वय्व्यञ्जने लुक्' (४।४।१२१) वलोपः । अनेन न० → आ० । ‘इवर्णादे०' (१।२।२१) य० । पुनराग्रहणं ताविति नवेति च निवृत्त्यर्थम् । ङित्करणं घ्यावेत्यादौ गुणनिषेधार्थम् ।।छ।। Jain Education Intemational For Private & Personal use only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy