________________
४८
[तत्वा ] तननं पूर्वम् । प्राक्काले' (५/४१४७) क्त्वाप्र०
[ततिः] तननं = ततिः । स्त्रियां क्तिः ' ( ५। ३ ।९१) क्तिप्र०
सनोतेरात्वं वक्ष्यति ।
त्वा ।
[क्षतः ] ' क्षणूग् (यी) हिंसायाम् ' (१५०१) क्षण । क्षण्यते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० → त ।
[क्षतवान् ] क्षण्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र०
तवत् ।
[क्षत्वा ] क्षणनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा ।
[क्षतिः ] क्षणनं = क्षतिः । क्तिप्र० → ति ।
[ऋतः ] 'ऋणूयी गतौ' (१५०३) अण् । अर्णोति स्म । गत्यर्था ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० → त ।
[ऋतवान् ] अर्णोति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् ।
[तृतः ] 'तृणूयी अदने ' (१५०४) तृण् । तर्णोति स्म । 'गत्यर्था ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० → त ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
ति ।
[तृतवान् ] तर्णोति स्म । 'क्तक्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् ।
[घृतः ] 'घृणूयी दीप्तौ ' (१५०५) घृण् । घर्णोति स्म । 'गत्यर्था - ऽकर्मक- पिब- भुजेः' ( ५1१1११) क्तप्र० त । [घृतवान्] ‘घर्णोति स्म । 'क्तक्तवतू' (५।१।१७४) क्तवतुप्र०
तवत् ।
[वतः] 'वनूयि याचने' (१५०६ ) वन् । वनुते स्म ।
[मतः ] 'मनूयि बोधने' (१५०७ ) मन् । मन्यते स्म । 'ज्ञानेच्छाऽर्चाऽर्थ - ञीच्छील्यादिभ्यः क्तः' (५।२।९२) क्तप्र० → त ।
[मतवान् ] मन्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् ।
[शान्तः] 'शमू उपशमे' (१२३०) शम् । शाम्यति स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० त । 'अहन्पञ्चमस्य क्वि - क्ङिति' (४।१।१०७) दीर्घः आ ।
[ दान्तः ] शमू (१२३०) 'दमूच् उपशमे' (१२३१) दम् । दाम्यति स्म । 'क्त-क्तवतू' (५1१1१७४) क्तप्र०
त । 'अहन्पञ्चमस्य क्वि - क्डिति' (४।१।१०७) दीर्घः आ ।
-
-
Jain Education International
[वंवान्तः] 'वन संभक्तौ' (३२९) वन् । भृशं पुनः पुनर्वा वनति (तः) । 'व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा' ( ३।४।९) यप्र० । 'सन्-यडञ्च' (४।१।३) " व "द्विः । 'मुरतोऽनुनासिकस्य' (४।१।५१) मोऽन्तः । ' बहुलं लुप्' ( ३।४।१४) यङ्लुप् । वर्त्त० तस् । 'अहन्पञ्चमस्य क्वि - क्ङिति' (४।१।१०७ ) दीर्घः ।
[तन्तान्तः] 'तनूयी विस्तारे' (१४९९) तन् । भृशं पुनः पुनर्वा तनोति (तनुतः) । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४१९) यप्र० । 'सन्-यश्च' (४।१।३) “त द्विः । 'मुरतोऽनुनासिकस्य' (४।१।५१ ) मोऽन्तः । ' बहुलं लुप्' ( ३।४।१४ ) यड्लुप् । वर्त्त० तस् । 'अहन्पञ्चमस्य क्वि - क्डिति' (४।१।१०७ ) दीर्घः ।
• अन्यत्र भवति
[यंयतः ] यम् । भृशं पुनः पुनर्वा यच्छतः । व्यञ्जनादेरेकस्वरा०' ( ३ | ४१९ ) यप्र० । 'सन् - यङश्च ' ( ४1१1३) "यद्विः । 'मुरतोऽनुनासिकस्य' (४।१।५१) मोऽन्तः । ' बहुलं लुप्' ( ३।४।१४ ) यङ्लुपि वर्त्त० तस् । अनेनैव मलोपः ।
For Private & Personal Use Only
www.jainelibrary.org