________________
अथ चतुर्थाध्यायस्य द्वितीयः पादः ।।
४७
[गतः] अम (३९२) - द्रम (३९३) - हम्म (३९४) - मीम (३९५)- 'गम्लं गतौ' (३९६) गम् । गच्छति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५1१1११) क्तप्र० →त ।
[गतवान्] गच्छति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् । [गत्वा] गमनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । गितिः] गमनं = गतिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन मलोपः ।
[हतः] ‘हनंक हिंसा-गत्योः' (११००) हन् । हन्ति स्म । 'गत्यर्था-ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० → त। अनेन नलोपः ।
हतवान् हन्ति स्म । 'क्त-क्तवतू' (५।११७४) क्तवतुप्र० → तवत् । प्रथमा सि । 'ऋदुदितः' (११४७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घड्याब्-व्यञ्जनात् सेः' (१।४।४५) सिलोपः । 'पदस्य' (२११८९) तलोपः ।
__ [हत्वा] हननं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । सर्वत्र प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलोपः ।
हतिः हननं = हतिः । 'वादिभ्यः' (५।३।९२) क्तिप्र० → ति । 'साति-हेति-यूति-जूति-ज्ञप्ति-कीर्तिः' (५।३।९४) इत्यादिना हेति इति स्यात् । सर्वत्र प्रथमा सि । 'सो रुः' (२११७२) स० →र० । 'रः पदान्ते विसर्गस्तयोः' (१३५३) विसर्गः ।
[आहत] हन्, आड्यूर्व० । अद्यतनी त । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'आडो यम-हनः, स्वेऽङ्गे च' (३।३।८६) इत्यात्मनेपदम् । 'हनः सिच्' (४।३।३८) कित्त्वम् । अनेन सर्वत्र नलोपः । 'धुड्-हस्वाल्लुगनिटस्त-थोः' (४।३।७०) सिच्लोपः ।
[आहथाः] हन्, आङ्पूर्व० । अद्यतनी थास् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'आडझे यम-हनः, स्वेऽते च' (३।३।८६) इत्यात्मनेपदम् । 'हनः सिच्' (४।३।३८) कित्त्वम् । अनेन नलोपः । 'धुड्-ह्रस्वाल्लुगनिटस्त-थोः' (४।३।७०) सिचलोपः ।
[मतः] बुधिं (१२६२) - ‘मनिंच् ज्ञाने' (१२६३) मन् । मन्यते स्म । 'ज्ञानेच्छाऽर्चाऽर्थ-जीच्छील्यादिभ्यः क्तः' (५।२।९२) क्तप्र० → त ।
[मतवान्] मन्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० -→ तवत् । [मत्वा] मननं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । [मतिः] मननं = मतिः । क्तिप्र० → ति ।
[वतिः] + 'वनः संभक्तौ' (३२९) वन् । वननं = वतिः । क्तिप्र० । 'तिक्कृतौ नाम्नि' (५।१७१) तिकि 'न तिकि०' (४।२।५९) प्रतिषेधं वक्ष्यति, अनेन नलोपः ।
[ततः] 'तनूयी विस्तारे' (१४९९) तन् । तन्यते स्म । 'क्त-क्तवतू' (५।११७४) क्तप्र० → त । [ततवान्] तनोति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० → तवत् ।
P.फ हन्यते स्म ।
+ लघुवृत्ति-धातुरत्नाकर-धातुपारायणेषु - "वन भक्तो' ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org