________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । [अदीदृशत्, अददर्शत्] 'दृशुं प्रेक्षणे' (४९५) दृश् । अदर्शत् अद्राक्षीत् वा कश्चित्, तं ददर्शि ( ददृशि ) वांसमन्यः प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । अद्यतनी दित् । णि- श्रि-दु-सु-कमः ० ' ( ३।४।५८) ङप्र० । अनेन वा अर् लोपित्वात् "ऋत् द्विः । 'ऋतोऽत्' (४।१।३८ ) ऋ० अ० । 'असमानलोपे०' (४।१।६३ ) इ । 'लघोर्दीर्घो ऽस्वरादेः' - ( ४।१।६४ ) दीर्घः । ' णेरनिटि' (४।३।८३) णिग्लोपः । 'अड् धातोरादि० ' ( ४।४।२९) अट् ।
३६
[ अचीकृतत्, अचिकीर्तत्] 'कृतण संशब्दने' (१६४९) कृत् । ' चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । अद्यतनी दित् । 'णि श्रि- द्रु-सु-कमः ० ( ३।४।५८) प्र० । अनेन वा ऋत् । द्विः । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'क-डश्च - ञ्' (४।१।४६) क० च० । 'असमानलोपे०' (४।१।६३ ) इ । 'लघोर्दीर्घो ऽस्वरादेः ' ( ४|१|६४) दीर्घः । पक्षे 'कृतः कीर्त्तिः ' ( ४|४|१२२) " कीर्त्” आदेशः । शेषं पूर्ववत् । 'अड् धातोरादि०' (४।४।२९) अट् । वचनसामर्थ्यादर्कीर्त्यादेशौ बाध्य ( ये ) ते ।
[ अचीकरत् ] 'डुकृंग् करणे' (८८८) कृ । कुर्वन्तं प्रायुक्त । प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । 'नामिनोऽकलि-हले:' ( ४।३।४१) वृद्धिः आर् । अद्यतनी दि त् । 'णि श्रि-दु-सु-कमः ० ' ( ३।४।५८) डप्र० । द्विः “कृ” । 'ऋतोऽत्' (४।१।३८) ऋ० अ० । 'क-डश्चञ्' (४।१।४६) क० च० । पूर्वं 'उपान्त्यस्याऽसमानलोपि ० ' (४।२।३५) ह्रस्वः, ततो द्वित्वादिः । 'असमानलोपे० ' ( ४।१।६३) इ । 'लघोर्दीर्घोऽस्वरादेः' (४।१।६४) दीर्घः । 'णेरनिटि' (४।३।८३) णिग्लोपः । ' अड् धातोरादि०' (४।४।२९) अटू |छ ।
जिघ्रतेरिः || ४|२|३८|
[जिघ्रतेरिः ] जिघ्रति षष्ठी डस् । इ प्रथमा सि ।
[ अजिघ्रिपत्, अजिघ्रपत्] 'घां गन्धोपादाने' (३) घा । अघात् अघ्रासीत् वा कश्चित् तं जिघ्रन्तमन्यः प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । 'अर्त्ति -री- व्ली०' (४।२।२१) पोऽन्तः । 'णि श्रि-दु-सु-कमः कर्तरि ङः ' ( ३।४।५८) डप्र० । अनेन वा आ० इ० । पक्षे 'उपान्त्यस्याऽसमानलोपि०' ( ४।२।३५ ) ह्रस्वः । द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' ( ४।१।४४ ) रलोपः । द्वितीय-तुर्ययोः पूर्वौ' (४।१।४२) घ०ग० । 'ग होर्ज:' ( ४|१/४०) ग० ज० । 'असमानलोपे० ' ( ४।१।६३) इ । 'णेरनिटि' ( ४।३।८३) णिग्लोपः । 'अड् धातोरादि० ' ( ४१४१२९) अट् ।
तिनिर्देशो यङ्लु निवृत्त्यर्थः
[ अजाघ्रपत्] घ्रा । भृशं पुनः पुनर्वा जिघ्रति । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९ ) यप्र० । 'सन्-यडश्च' ( ४।१।३) “घ्राद्विः । व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ' ह्रस्वः' (४|१|३९) ह्रस्वः । 'ग- होर्ज:' ( ४।१।४०) ग० → ज० । पूर्वं द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) घ०ग० । 'आ-गुणावन्यादेः ' ( ४|११४८) आ । 'बहुलं लुप्' (३।४।१४) यङ्लुप् । जाघ्रतं प्रायुक्त । 'प्रयोक्तृ०' ( ३।४।२० ) णिग्प्र० । 'अर्त्ति -री- व्ली - ही- क्नूयि ० ' ( ४।२।२१) पोऽन्तः । अद्यतनी दित् । 'णि श्रि-दु-सु-कम: ० ' ( ३ | ४|५८) डप्र० । 'उपान्त्यस्याऽसमानलोपि०' (४।२ । ३५ ) ह्रस्वः । ' णेरनिटि' ( ४ । २ । ३५ ) णिग्लोपः । 'अड् धातोरादि० ' ( ४।४।२९ ) अट् ||छ ।
तिष्ठतेः ||४|२| ३९ ॥
[तिष्ठतेः ] तिष्ठति षष्ठी डस् । ' डित्यदिति' (१।४।२३) ए । 'एदोद्भ्यां डसि - डसो रः' (१।४।३५ ) ङस् ०० । 'रः पदान्ते० " (१।३।५३) विसर्गः ।
[अतिष्ठिपत्, अतिष्ठिपताम्, अतिष्ठिपन्] 'ष्ठां गतिनिवृत्तौ' (५) ष्ठा । ' षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्था ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org