________________
अथ चतुर्थाध्यायस्य द्वितीयः पादः ।।
१९
[अकागि, अकगि] हूस्वयुक्तः कगि मण्ड्यते । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच-तलोपश्च । अनेन वा दीर्घः । ‘णेरनिटि' (४।३।८३) णिग्लोपः ।।
[कागकागम्, कगंकगम् कगि । अभीक्ष्णं कगनं पूर्वम् । ‘ख्णम्-चाभीक्ष्ण्ये' (५।४।४८) ख्णमप्र० । अनेन वा दीर्घः । 'णेरनिटि' (४।३।८३) णिग्लोपः । 'भृशा-ऽऽभीक्ष्ण्या-ऽविच्छेदे द्विः प्राक् तमबादेः' (७।४।७३) द्विः ।
[उपवनयति] 'वनूयि याचने' (१५०६) वन्, उपपूर्व० । उपवन्वानं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । 'णिति' (४१३५०) उपान्त्यवृद्धिः । अनेन ह्रस्वः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[उपावानि, उपावनि, अवानि, अवनि] इस्वयुक्त उपवनि मण्ड्यते । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच्तलोपश्च । अनेन वा दीर्घः । ‘अड धातोरादि०' (४।४।२९) अट । एवं उपरहितः ‘अवानि' - 'अवनि' ।
उपवानमपवानम, उपवनमपवनम] उपवनि मण्ड्यते । अभीक्ष्णमपवननं पर्वम । 'ख्णम चाभीक्ष्ण्ये (५४|४८) ख्णम्प० । अनेन वा दीर्घः । ‘णेरनिटि' (४।३।८) णिग्लोपः । 'भृशा-ऽऽभीक्ष्ण्या-ऽविच्छेदे०' (७।४।७३) द्विः ।
जनयति] 'जनैचि प्रादुर्भावे' (१२६५) जन् । जायमानं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'णिति' (४१३५०) उपान्त्यवृद्धिः । अनेन हूस्वः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (११२१२३) अय् ।
[अजानि, अजनि] जन् । जायमानं प्रायुक्त । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । “णिति' (४।३।५०) उपान्त्यवृद्धिः । अनेन ह्रस्वः । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच्-तलोपश्च । अनेन वा दीर्घः । 'अड् धातोरादि०' (४।४।२९) अट् । ‘णेरनिटि' (४।३।८३) णिग्लोपः ।
__[जानजानम्, जनंजनम्] हूस्वयुक्तो जनि मण्ड्यते । अभीक्ष्णं जननं पूर्वम् । ‘ख्णम् चाभीक्ष्ण्ये' (५।४।४८) ख्णम्प० । अनेन वा दीर्घः । ‘णेरनिटि' (४।३।८३) णिग्लोपः । 'भृशा-ऽऽभीक्ष्ण्या-ऽविच्छेदे०' (७।४।७४) द्विः ।
[जरयति] 'जूष्च् जरसि' (११४५) । जीर्यन्तं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । अनेन ह्रस्वः ।
[अजारि, अजरि] » । जरन्तं(जीर्यन्तं) प्रायुक्त । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । 'नामिनोऽकलि-हलेः' (४१३५१) वृद्धिः आर । अनेन ह्रस्वः । अद्यतनी त । 'भाव-कर्मणोः' (३।४।६८) जिच-तलोपश्च । 'अड् धातोरादि०' (४।४।२९) अट् ।
[जारंजारम् जरंजरम्] जृ । अभीक्ष्णं जरणं पूर्वम् । ‘ख्णम् चाभीक्ष्ण्ये' (५।४।४८) ख्णम्प्र० । 'नामिनोऽकलि-हलेः' (४।३।५१) वृद्धिः आर् । अनेन ह्रस्वः । 'भृशा-55भीक्ष्ण्या-ऽविच्छेदे द्वि:०' (७।४।७३) द्विः ।
[क्नसयति] 'क्नसूच हृति-दीप्त्योः ' (११७०) क्नस् । क्नस्यन्तं प्रयुङ्क्ते । प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । अनेन ह्रस्वः । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
[अक्नासि, अक्नसि] हूस्वयुक्तः क्नसिं मण्ड्यते । अद्यतनी त । ‘भाव-कर्मणोः' (३।४।६८) जिच्-तलोपश्च । अनेन वा दीर्घः । 'अड़ धातोरादि०' (४।४।२९) अट् ।
Jain Education Intemational
For Private & Personal use only
www.jainelibrary.org