SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ।। ३३५ [रधिता] रध् । श्वस्तनी ता । 'धूगौदितः' (४।४।३८) इट् । [रधिष्यति] रध् । भविष्यन्ती स्यति । 'धूगौदितः' (४।४।३८) इट् । 'नाम्यन्तस्था-कवर्गात्' (२।३।१५) षत्वम् । [ररन्ध] रध् । परोक्षा णव् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन नोऽन्तः । [ररन्धतुः] रध् । परोक्षा अतुस् । 'द्विर्धातुः परोक्षा-डे०' (४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । अनेन नोऽन्तः । ररन्धुः] रध । परोक्षा उस । 'द्विर्धातुः परोक्षा-डे०' (४1919) द्वि: । 'व्यञ्जनस्याऽनादेर्लुक' (४।११४४) अनादिव्यञ्जनलोपः । अनेन नोऽन्तः । [रद्धा] रध् । श्वस्तनी ता । 'अधश्चतुर्थात् तथोर्धः' (२।१।७९) त० → ध० । 'तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० ॥छ। रभोऽपरोक्षा-शवि ।।४।४।१०२।। [रभः] रभ षष्ठी डस् । [अपरोक्षाशवि] परोक्षा च शव् च = परोक्षाशव्, न परोक्षाशव् = अपरोक्षाशव, तस्मिन् । [आरम्भयति] 'रभिं राभस्ये' (७८५) रम्, आड्यूर्व० । आरम्भमाणं प्रयुङ्क्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । अनेन नोऽन्तः । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एकैतोऽयाय्' (१।२।२३) अय् । [आरम्भकः] आरभते । ‘णक-तृचौ' (५।१४८) णकप्र० → अक । अनेन नोऽन्तः । [साध्वारम्भी] साधु आरभते । 'साधौ' (५1१1१५५) णिनप्र० → इन । अनेन नोऽन्तः । प्रथमा सि । 'इनहन्०' (१।४।८७) दीर्घः । 'दीर्घड्याब्०' (१।४।४५) सिलुक् । 'पदस्य' (२।१८९) नलोपः । [आरम्भमारम्भम] अभीक्ष्णमारंभणं पूर्वम् । 'ख्णम् चाभीक्ष्ण्ये' (५।४।४८) ख्णम्प्र० → अम् । अनेन नोऽन्तः । 'भृशा-ऽऽभीक्ष्ण्या-ऽविच्छेदे०' (७।४।७३) “आरम्भम्''द्वि: । [आरम्भो वर्तते] आरंभणं = आरम्भः । ‘भावा-ऽकोंः ' (५।३।१८) घञ्प० । अनेन नोऽन्तः । [आरेभे] रभ्, आङ्यूर्व० । परोक्षा ए । 'अनादेशाऽऽदेरेकव्यञ्जनमध्येऽतः' (४।१।२४) ए । [आरभते] रभ, आयूर्व० । वर्त० ते । ‘कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । [आरब्धा रभ, आइपूर्व० । श्वस्तनी ता । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० →ध० । 'तृतीयस्तृतीय-चतुर्थे' (१३१४९) भ० → ब० ॥छ।। लभः ।।४।४/१०३।। [लभः] लभ् षष्ठी डस् । [लम्भयति] 'डुलभिंष प्राप्तौ' (७८६) लभ् । लम्भ(भ)मानं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy