________________
३३४
ऽ विच्छेदे द्विः प्राक् तमबादेः' (७।४।७३) "जम्भं" द्वित्वम् ।
[ जम्भो वर्त्तते] जम्भनं = जम्भः । ' भावा - Sकर्त्री : ' ( ५।३।१८) घञ्प्र० अ । अनेन ।
[जभ्यम् ] जम्भति जम्भत इति वा = जभ्यम् । 'शकि- तकि- चति-यति-शसि सहि-यजि-भजि-पवर्गात्' (५।१।२९)
यप्र० ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[जंजब्धि ] गर्हितं जम्भति जम्भते । 'गृ-लुप सद-चर-जप- जभ- दश-दहो गयें' (३|४|१२) यप्र० । 'जप- जभ-दहदश-भञ्ज-पश:' (४।१।५२) मोऽन्तः । ' बहुलं लुप्' ( ३।४।१४ ) यङ्लुप् । वर्त्त० तिव् । 'अधश्चतुर्थात् तथोर्धः ' (२।१।७९ ) ति०धि० । 'तृतीयस्तृतीय- चतुर्थे' (१।३।४९ ) भ० ब० ॥ छ ॥
रध इटि तु परोक्षायामेव || ४|४|१०१ ।।
[रधः ] रध् षष्ठी डस् ।
[इटि] इट् सप्तमी ङि ।
[तु] तु प्रथमा सि ।
[परोक्षायाम् ] परोक्षा सप्तमी ङि ।
[व] एव प्रथमा सि ।
[ रन्धयति ] 'रधौच् हिंसा-संरादयो: ' (११८८) रघ् । रध्यन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । अनेन नोऽन्तः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१ ) शब् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् ।
[ रन्धकः ] रध्यतीति । 'णक-तृचौ' (५।१।४८) णकप्र० अक । अनेन नोऽन्तः ।
[साधुरन्धी] साधु रध्यतीति । 'साधौ' (५।१।१५५) णिन्प्र०इन् । प्रथमा सि । ' इन्- हन्- पूषाऽर्यम्णः शिस्योः ' (१।४।८७) दीर्घः । 'दीर्घङ्याब्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽननः ' (२।१।९१ ) नलुक् ।
अम् । भृशा ऽऽभीक्ष्ण्या
[ रन्धरन्धम् ] अभीक्ष्णं रन्धनं पूर्वम् । ख्णम् चाऽऽभीक्ष्ण्ये' (५।४।४८) ख्णम्प्र०
ऽ विच्छेदे द्विः प्राक् तमबादेः' (७।४।७३) “रन्धं द्विः । प्रथममनेन नोऽन्तः ।
[ रन्धो वर्त्तते] रन्धनं = रन्धः । भावा ऽकर्त्री : ' ( ५।३।१८) घञ्प्र० अ । अनेन नोऽन्तः ।
[ररन्धव] रधू । परोक्षा व । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । ‘स्क्रसृ-वृ-भृ-स्तु० ' ( ४|४|८१ ) इट् । अनेन नोऽन्तः ।
[ररन्धिम ] रधू । परोक्षा म । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'स्क्रसृ-वृ-भृ-स्तु० ' ( ४/४१८१ ) इट् । अनेन नोऽन्तः ।
[रेधिवान्] रध् । ररन्ध = रेधिवान् । 'तत्र क्वसु- कानौ तद्वत्' (५।२।२) क्वसुप्र०वस् । 'स्क्रसृ-वृ-भृ-स्तु०' (४|४|१ ) इट् । अनेन नोऽन्तः । 'नो व्यञ्जनस्याऽनुदितः' (४।२।४५) नलुक् । 'अनादेशाऽऽदेरेकव्यञ्जनमध्येऽतः ' ( ४।१।२४ ) ए । प्रथमा सि । 'धुटां प्राक्' (१।४।६६) नोऽन्तः (?) ('ऋदुदितः ' (१।४।७० ) नोऽन्तः) । 'स्महतोः ' (१।४।८६ ) दीर्घः । ' दीर्घयाव् ० ' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) सलोपः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org