SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ ३१६ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । व्यञ्जनमादिर्यस्याः सा = व्यञ्जनादिः, तस्याः = व्यञ्जनादेः । षष्ठी इस् । [ व्यञ्जनादेः ] [ परोक्षायाः ] परोक्षा षष्ठी इस् । [ संचस्करिव ] 'डुकृंग् करणे' (८८८) कृ, सम्पूर्व० । ' संपरेः कृगः स्सट्' (४|४|११ ) सट् । परोक्षा व । 'द्विर्धातुः परोक्षा- ङे प्राक् तु०' (४/१/१) द्वि: । 'अघोषे शिट : ' (४/१/४५) सलुक् । 'ऋतोऽत्' (४|१|३८) ऋ० डश्च-ञ्' (४।१।४६) क० च० । अनेन इट् । 'स्कृच्छ्रतोऽकि परोक्षायाम्' (४।३१८) गु० अर् । अ० । 'क [ संचस्करिम] 'डुकंग् करणे' (८८८) कृ, सम्पूर्व० । 'संपरेः कृगः स्सट्' (४।४।९१) सट् । परोक्षा म । 'द्विर्धातुः परोक्षा ङे प्राक् तु०' (४।१।१) द्विः । 'अघोषे शिट:' ( ४|१|४५) सलुक् । 'ऋतोऽत्' (४।१।३८ ) ऋ० अ० । कडश्च- ञ्' (४।१।४६) क० च० । अनेन इट् । 'स्कृच्छ्रतोऽकि परोक्षायाम्' (४।३।८) गु० अर् । [ददिव] 'डुदांग दाने' (११३८) दा । परोक्षा व । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । ' ह्रस्वः' ( ४|१|३९ ) ह्रस्वः । अनेन इट् । 'इडेत् - पुसि चाऽऽतो लुक्' (४।३।९४) आलुक् । [ददिम ] दा । परोक्षा म । 'द्विर्धातुः परोक्षा-डे० ' ( ४|१|१) द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । अनेन इट् । 'इडेत्पुसि० (४।३।९४) आलुक् । [ददिषे] दा । परोक्षा से । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) द्विः । ' ह्रस्वः' ( ४|१ | ३९ ) ह्रस्वः । अनेन इट् । 'इडेत्पुसि० (४।३।९४) आलुक् । 'नाम्यन्तस्था - कवर्गात् पदान्तः कृतस्य० ' (२।३।१५) षत्वम् । [चिच्यिवहे ] 'चिंगुट् चयने' (१२९०) चि । परोक्षा वहे । 'द्विर्धातुः परोक्षा- डे० ' ( ४1919) द्विः । अनेन इट् । 'योऽनेकस्वरस्य' (२।११५६) यत्वम् । [चिच्यिमहे] चि । परोक्षा महे । 'द्विर्धातुः परोक्षा- डे० ' (४।१।१) द्विः । अनेन इट् । 'योऽनेकस्वरस्य ' (२।१।५६) यत्वम् । [निन्यिवहे] 'णींग् प्रापणे' (८८४) णी । 'पाठे धात्वादेर्णो नः' (२।३।९७ ) नी । परोक्षा वहे । 'द्विर्धातुः परोक्षाडे० ' ( ४।१।१) द्विः । ' ह्रस्व:' ( ४|१|३९ ) ह्रस्वः । 'योऽनेकस्वरस्य' (२।१।५६) यत्वम् । [निन्यिमहे ] नी । परोक्षा महे । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । ' ह्रस्वः' (४|१|३९ ) ह्रस्वः । अनेन इट् । 'योऽनेकस्वरस्य' (२।१।५६) यत्वम् । [जुहुविव] 'हुंक् दाना-ऽदनयोः ' (११३०) हु । परोक्षा व । 'द्विर्धातुः परोक्षा- डे० ' (४।१।१) द्विः । 'ग-होर्जः' (४/१/४०) ह० ज० । अनेन इट् । 'धातोरिवर्णोवर्णस्येयुव् स्वरे प्रत्यये' (२।१।५०) उब् । [जुहुविम] हु । परोक्षा म । 'द्विर्धातुः परोक्षा-डे० ' (४।१।१) द्वि: । 'ग- होर्ज:' ( ४।१।४०) ह० ज० । अनेन इट् । 'धातोरिवर्णोवर्णस्येयुव्०' (२।१।५०) उब् । [लुलुविढ्वे, लुलुविध्वे] ‘लूग्श् छेदने ' (१५१९) लू । परोक्षा ध्वे । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) द्विः । ' ह्रस्वः' (४।१।३९) ह्रस्वः । अनेन इट् । 'धातोरिवर्णोवर्णस्येयुव्० ' (२।११५०) उव् । 'हान्तस्थाज्ञीड्भ्यां वा' (२।१।८१) ध० ढ० विकल्पेन । P. व्यञ्जनगादिर्यस्याऽसौ तस्य । Jain Education Intemational. For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy