SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्डिका । [ स्पष्टः, स्पाशितः ] 'स्पशिण् ग्रहण-श्लेषणयोः' (१८४२) स्पश् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । 'ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । स्पाश्यते स्म । क्तप्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' ( ४१४१३२ ) इट् । 'सेट्क्तयो:' ( ४१३१८४ ) णिलोपः । ३१० [छन्नः, छादितः] छद् । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । ञ्णिति' ( ४ | ३ |५०) उपान्त्यवृद्धिः । छाद्यते स्म । क्तप्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'सेट्क्तयो:' ( ४१३३८४) णिलोपः । [ज्ञप्तः, ज्ञापितः, संज्ञपितः, संज्ञप्तः ] 'ज्ञांश् अवबोधने' (१५४०) ज्ञा । जानन्तं प्रयुङ्क्ते । 'ज्ञाणू मारणादिनियोजनेषु' (१७२०) ज्ञा । 'चुरादिभ्यो णिच्' ( ३।४।१७) णिच्प्र० । 'अर्त्ति-री- व्ली - ही क्नूय क्ष्माय्यातां पुः' ( ४१२।२१ ) पोऽन्तः । ज्ञाप्यते स्म । संज्ञप्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० त । 'सेट्क्तयोः' (४।३।८४) णिग्लोपः । संज्ञपित इत्यत्र पोऽन्त् आगते 'मारण- तोषण- निशाने ज्ञश्च' (४।२।३०) ह्रस्वः, ततो वाक्यम् । अत्र क्वचित् ह्रस्वश्च परं णिग्लोपः- इडभावः सर्वत्र छ । श्व-पम-रुषत्वर-संघुषाऽऽस्वनाऽमः || ४|४।७५ ।। [श्वसजपवमरुषत्वरसंघुषाऽऽस्वनाऽमः ] श्वसश्च जपश्च वमश्च रुषश्च त्वरश्च संघुषश्च आस्वनश्च अम् च = श्वसजपवमरुषत्वरसंघुषाऽऽस्वनाऽम् तस्मात् । [श्वस्तः, श्वसितः ] अन (१०८९ ) - 'श्वसक् प्राणने ' (१०९०) धस् । श्वसिति स्म । 'गत्यर्था - ऽकर्मक-पिब-भुजेः ' (५।१।११) क्तप्र० → त । 'रुत्पञ्चकाच्छिदयः' (४।४।८८) वाक्यमध्येऽनेन इट्विकल्पे 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । [प्रश्वस्तः, प्रश्वसितः ] प्रश्वसिति स्म । क्तप्र० । इट् । [ आश्वस्तः, आश्वसितः ] आश्वसिति स्म । क्तप्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४१४१३२) इट् । [आश्वस्तवान्, आश्वसितवान् ] आश्वसिति स्म । 'क्त-क्तवतू' (५।१।१७४) क्तवतुप्र० देरिट्' ( ४१४१३२) इट् । [विश्वस्तः, विश्वसितः] विश्वसिति स्म । 'गत्यर्था - ऽकर्मक-पिब-भुजेः' (५।१।११) क्तप्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । तवत् । 'स्ताद्यशितोऽत्रोणा [विश्वस्तवान्, विश्वसितवान् ] विश्वसिति स्म । 'क्तक्तवतू' (५।१।१७४) क्तवतुप्र० तवत् । स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । एवमग्रेऽपि ज्ञेयम् । प्राविभ्यो नित्यमिनिषेधयन्ति विश्रान्तविद्याधरादयः । सेः भावेऽधिकरणे च नित्यमेवेट् । [श्वसितम्] श्वस्यते स्म । भावे क्तः । [निश्वसितम्] निश्वस्यते स्म अस्मिन्निति । 'अद्यर्थाच्चाऽऽधारे' (५।१।१२) क्तप्र० → त । सि-अम् । [जप्तः, जपितः ] 'जप मानसे च' (३३८) जप् । जपति स्म । 'गत्यर्था - ऽकर्मक- पिब-भुजेः' (५1१1११) क्तप्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy