________________
अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥
३०९
[मिन्नः] मिद्यते स्म । क्त-क्तवतू' (५।१।१७४) क्तप्रत । 'रदादमूर्च्छ - मदः ०' (४।२।६९) द-त० न० । [मिन्नवान् ] मिद् । मेद्यति स्म । 'क्तक्तवतू' (५।१।१७४) क्तवतुप्र० तवत् । 'रदादमूर्च्छ मदः क्तयोर्दस्य च' (४।२।६९) दत्त० न० । प्रथमा सि । ऋदुदितः' (१।४।७०) नोऽन्तः । 'अभ्वादेरत्वसः सौ' (१।४।९०) दीर्घः । 'दीर्घङ्याब्० ' (१।४।४५) सिलुक् । 'पदस्य' (२।१।८९) तलोपः ।
पूर्वेण नित्यं निषेधे प्राप्ते विकल्पः ||छ ||
शकः कर्मणि ॥ ४१४ ॥ ७३ ॥
[शकः ] शक् पञ्चमी इसि ।
[कर्मणि] कर्मन् सप्तमी ङि ।
[शक्तः शकितो वा घटः कर्तुं चैत्रेण] 'शक्लृट् शक्तौ ' (१३००) शक् । शक्यते स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्रत । अनेन वा न इट् । अन्यत्र 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् ।
[शक्तः कटं कर्तुं चैत्रः ] शक्नोति स्म । 'गत्यर्था ऽकर्मक-पिब-भुजेः' (५19199) क्तप्र० त । कट द्वितीया अम् । कर्तुम् प्रथमा सि । 'अव्ययस्य' (३।२।७) सिलुप् ।
कर्मणि क्तवतुर्नास्तीति नोदाह्रियते ॥ छ ॥
णौ दान्त - शान्त - पूर्ण - दस्त - स्पष्ट छन्न- ज्ञप्तम् ||४|४|७४ ।।
[णौ ] णि सप्तमी ङि ।
[ दान्तशान्तपूर्णदस्तस्पष्टछन्नज्ञप्तम् ] दान्तश्च शान्तश्च पूर्णश्च दस्तश्च स्पष्टश्च छन्नश्च ज्ञप्तश्च = दान्तशान्तपूर्ण दस्तस्पष्टछन्नज्ञप्तम् ।
[ दान्तः, दमितः ] शमू (१२३० ) - 'दमूच् उपशमे' (१२३१) दम् । दाम्यन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिगू ( ३।४।२०) णिग्प्र० । ञ्णिति' (४।३।५०) उपान्त्यवृद्धिः । 'अमोऽकम्यमि-चमः ' ( ४।२।२६ ) ह्रस्वः । दम्यते स्म । गिग्सति अनेन निपातः । ‘स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'सेट्क्तयोः' (४।३।८४) णिग्लोपः । ' अहन्पञ्चमस्य०' (४।१।१०७) दीर्घः ।
[ शान्तः, शमितः ] 'शमू उपशमे' (१२३० ) शम् । ञ्णिति' ( ४ | ३ |५०) उपान्त्यवृद्धिः । ' अमोऽकम्यमि-चमः' (४।२।२६) ह्रस्वः । शम्यते स्म । णिग्सति अनेन निपातः । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'सेट्क्तयोः ' (४।४।८४) णिग्लोपः । ' अहन्पञ्चमस्य ० ' ( ४|१|१०७) दीर्घः ।
[पूर्णः पूरितः ] 'पूरैचि आप्यायने' (१२६८) पूर् । पूर्यमाणं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । पूर्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० त । 'स्ताद्यशितोऽत्रोणादेरिट्' (४१४१३२ ) इट् । 'सेट्क्तयोः' (४।३।८४) णिलोपः ।
एषु णिलुप् निपात्यते ।
Jain Education Intemational.
[दस्तः, दासितः] 'दासृग् दाने' (९३३) दास् । दास्यते स्म । क्तप्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४१४३ 'सेट्क्तयो:' ( ४१३।८४) णिग्लोपः ।
For Private & Personal Use Only
www.jainelibrary.org