________________
अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥
[भविता] 'भू सत्तायाम्' (१) भू । भवति । 'णक-तृचौ' (५।१।४८) तृच्प्र० तृ, श्वस्तनी ता वा । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'नामिनो गुणोऽक्डिति' ( ४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् । [विता] 'णुक् स्तुती' (१०८१) णु । 'पाठे धात्वादेर्णो नः' (२।३।९७) नु । नौति । 'णक-तृचौ ' ( ५।१।४८) तृच्प्र० → तृ, श्वस्तनी ता वा । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'धातोरिवर्णोवर्णस्येयुव्० ' (२।१।५० ) उब् ।
[लविता] 'लूग्श् छेदने' (१५१९) लू । लुनातीति । 'णक-तृचौ' (५।१।४८) तृच्प्र० तु श्वस्तनी ता वा । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । 'ओदौतोऽवाव्' (१।२।२४) अव् ।
२९५
[तरिता, तरीता ] 'तृ प्लवन-तरणयोः ' (२७) तृ । तरतीति । 'णक-तृचौ ' ( ५।१।४८) तृच्प्र० तृ, श्वस्तनी ता वा । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'वृतो नवाऽनाशी : - सिच्परस्मै च' (४।४।३५) इटो वा दीर्घः । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् ।
[ आस्तरिता, आस्तरीता ] 'स्तृग्श् आच्छादने' (१५२१) स्तू, आङ्पूर्व० । आस्तृणातीति । 'णक - तृचौ ' ( ५1१1४८ ) तृच्प्र० तृ, श्वस्तनी ता वा । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२ ) इट् । 'वृतो नवाऽनाशीः- सिच्परस्मै च' (४|४|३५) इटो वा दीर्घः । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् ।
[उद्विजिता] 'ओविजैति भय-चलनयोः ' (१४६८) विज्, उत्पूर्व० । उद्विजति (ते) इति । 'णक-तृचौ' (५/११४८) तृच्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'विजेरिट्' (४।३।१८) ङिद्वत् तस्य फलं गुणो न ।
[उद्विजितुम्] विज्, उत्पूर्व० । उद्वेजनाय । 'क्रियायां क्रियार्थायां तुम्०' (५।३।१३) तुम्प्र० । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'विजेरिट्' (४।३।१८) ङिद्वत् तस्य फलं गुणो न ।
[वेदिता शास्त्रस्य ] 'विदक् ज्ञाने' (१०९९) विद् । वेत्तीति । 'णक-तृचौ' (५।१।४८) तृच्प्र० तू वस्तनी ता वा । इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए ।
[स्वेदिता] ‘ञिष्विदाङ् मोचने च ' ( ९४६ ) ष्विद् । ' षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) स्विद् । स्वेद इति । ‘णक-तृचौ’ (५।१।४८) तृच्प्र० तृ, श्वस्तनी ता वा । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् ।
[क्ष्वेदिता] ‘ञिक्ष्विदाङ् मोचने च' (९४५) क्ष्विद् । 'ञिक्ष्विदाच् मोचने च' (११८१) क्ष्विद् । क्ष्वेदते । क्ष्विद्यतीति । ‘णक-तृचौ’ (५।१।४८) तृच्प्र० तृ, श्वस्तनी ता वा । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् ।
[बोधिता] 'बुधृग् बोधने' (९१२) बुध् । 'बुध अवगमने ' ( ९६८) बुध् । श्वस्तनी ता । इट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ओ ।
[सेधिता ] 'षिधू गत्याम्' (३२० ) षिध् । 'षिधौ शास्त्र - माङ्गल्ययोः' (३२१) षिध् । 'षः सोऽष्ट्ये - ष्ठिव-ष्वष्कः' (२।३।९८) सिध् । सेधतीति । 'णक-तृचौ' (५।१।४८) तृच्प्र० तृ, श्वस्तनी ता वा । इट् । 'लघोरुपान्त्यस्य' (४।३।४ )
गु० ए ।
[मनिता ] 'मनूयि बोधने' (१५०७) मन् । मनुते इति । 'णक-तृचौ ' ( ५।१।४८) तृच्प्र० तृ । 'ऊदितो वा' (४।४।४२ ) इट् (?) । ('स्ताद्यशितो ० ' ( ४।४।३२ ) इट्) ।
[मतम् ] मन्यते । 'ज्ञानेच्छाऽर्चाऽर्थ - ञीच्छील्यादिभ्यः क्तः' (५/२/९२) क्तप्र० त । क्त्वि वेट्कत्वात् 'वेटोऽपतः' (४|४|६२ ) इति भविष्यति ।
Jain Education Intemational.
For Private & Personal Use Only
www.jainelibrary.org