SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २६४ गुणोऽक्डिति' (४।३।१) गु० ओ । मतान्तरेऽनेन इट् । [सोता, सविता] ‘बुंगुट् अभिषवे' (१२८६) षु । ' षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सु । श्वस्तनी ता । ‘नामिनो गुणोऽक्ङिति' (४।३।१) गु० ओ । मतान्तरेऽनेन इट् । [दोता, दविता] इं (११) - 'दुं गतौ' (१२) दु । श्वस्तनी ता । 'नामिनो गुणोऽक्डिति' ( ४ | ३|१) गु० ओ । मतान्तरेऽनेन इट् । [रुरुविम] रु । परोक्षा म । 'द्विर्धातुः परोक्षा- ङे प्राक् तु स्वरे स्वरविधेः ' ( ४।१।१) “रु”द्विः । 'स्क्रसृ-वृ-भृ-स्तुद्रु-श्रु-स्रोर्व्यञ्जनादेः परोक्षायाः' (४|४|८१ ) इट् । 'धातोरिवर्णोवर्णस्येयुव् स्वरे प्रत्यये' (२।१।५०) उव् । [ नुनुविम] नु । परोक्षा म । 'द्विर्धातुः परोक्षा- डे० ' (४।१।१) “नु” द्विः । 'स्क्रसृ-वृ-भृ-स्तु-दु०' (४।४।८१) इट् । 'धातोरिवर्णोवर्णस्येयुव्०' (२।१।५०) उव् । [सुविम] सु । परोक्षा म । 'द्विर्धातुः परोक्षा- डे० ' ( ४।१।१) “सु” द्विः । 'स्क्रसृ-वृ०' (४।४।८१) अट् । 'धातोरिवर्णो०' (२1१।५०) उव् । [दुदुविम] दु । परोक्षा म । 'द्विर्धातुः परोक्षा- डे० ' (४।१।१) “दु” द्विः । 'स्क्रसृ-वृ०' (४।४१८१) इट् । 'धातोरिवर्णो०' (२।१।५०) उब् । विषेर्मूलफलकर्मण्यपरोक्षायामिड् वा [मूलफलकर्मणि] मूलं च फलं च = मूलफलम्, तत् कर्म यस्य तत्, तस्मिन् । [वेष्टा, वेषिता मूलानि वा फलानि वा ] 'विष्लंकी व्याप्तौ (११४३) विषु । श्वस्तनी ता । मतान्तरे वेट् अनेन । 'तवर्गस्य श्चवर्ग-ष्टवर्गाभ्यां०' (१।३।६०) त०ट० । मूल फल अस् । 'नपुंसकस्य शिः ' (१।४।५५) शि० इ० । 'स्वराच्छौ' (१।४।६५) नोऽन्तः । ' नि दीर्घः' (१।४।८५) दीर्घः । [ संविविषिव ] सम्, विष् । परोक्षा व । 'द्विर्धातुः परोक्षा- डे० ' ( ४1919) द्विः । 'स्क्रसृ-वृ-भृ०' (४।४।८१ ) इट् ॥छ । श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका । इवृध-भ्रस्ज- दम्भ - श्रि-यूर्णु-भर-ज्ञपि-सनि-तनि-पति- वृद्-दरिद्रः सनः ||४|४|४७ ।। [इवृधभ्रस्जदम्भश्रियूर्णुभरज्ञपिसनितनिपतिवृद्दरिद्रः ] इव् च ऋधश्च भ्रस्जश्च दम्भश्च श्रिश्च युश्च ऊर्णुश्च भरश्च ज्ञपश्च सनिश्च तनिश्च पतिश्च वृश्च ऋच्च दरिद्राश्च = तत् तस्मात् । 'लुगाऽऽतोऽनापः ' (२।१।१०७) आलुक् । [सनः ] सन् षष्ठी इस् । [दुद्यूषति, दिटेविषति] 'दिवूच् क्रीडा-जयेच्छा - पणि-द्युति-स्तुति-गतिषु' (११४४) दिव् । देवितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्र० । 'अनुनासिके च च्छ्-वः शूट्' (४।१।१०८) व्० ऊ० ऊ । 'इवर्णादेरस्वे स्वरे य-व-र-लम्' (१।२।२१) यत्वम् । 'सन्- यडश्च' (४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४|१|४४) अनादिव्यञ्जनलोपः । पक्षेऽनेन वेट् । 'लघोरुपान्त्यस्य' (४।३।४) गु० ए । 'नाम्यन्तस्था० ' (२।३।१५) षत्वम् । [सुस्यूषति, सिसेविषति ] 'पिवूच् उतौ' (११६४ ) पिं । षः सोऽष्ट्यै ष्ठिव ष्वष्कः' (२।३।९८) सिव् । सेवितुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सन:' ( ३।४।२१) सन्प्र० । 'अनुनासिके च च्छ्-वः शूट्' (४।१।१०८) व्० ऊ ऊ | 'इवर्णादेरस्वे०' (१।२।२१) यत्वम् । 'सन्- यङश्च' ( ४।१।३) द्विः । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । P. दरिद्रा च । Jain Education International बृहद्वृत्तौ संविविषिम । - For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy