SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ २५२ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका । (२।१।११३) अलोपः । [वरीता, वरिता] 'वृडश सम्भक्तौ' (१५६७) वृ । श्वस्तनी ता । इट । अनेन वा दीर्घः । 'नामिनो गुणोऽक्डिति' (४।३।१) गु अर् । [विवरीषते, विवरिषते] वृ । वरीतुमिच्छति | 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । 'सन्-यडश्च' (४।१।३) द्विः । 'ऋतोऽत्' (४११३८) ऋ० → अ० । 'सन्यस्य' (४१५९) इ । 'इवृध-भ्रस्ज-दम्भ-श्रि०' (४।४।४७) इट् । अनेन वा दीर्घः । गु० अर् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त० ते । [तरीता, तरिता] 'तृ प्लवन-तरणयोः' (२७) तु । श्वस्तनी ता । इट् । अनेन वा दीर्घः । गु० अर् । [तितरीषति, तितरिषति] तृ । तरीतुं तरितुं वा इच्छति | 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प० । 'सन्यडश्च' (४१३) द्विः । 'हस्वः' (४१३९) ह्रस्वः । 'ऋतोऽत्' (४११३८) ऋ० → अ० । 'सन्यस्य' (४।११५९) इ । 'इवृध-भ्रस्ज-दम्भ-श्रि-यूष्णु०' (४।४।४७) इट् । अनेन वा दीर्घः । गु० अर् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त० तिव् । [जरीता, जरिता] 'जूषच् जरसि' (११४५) » । श्वस्तनी ता । इट् । अनेन वा दीर्घः । गु० अर् । [जिजरीषति, जिजरिषति] जु । जरीतुं जरितुं वा इच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प्र० । शेषं पूर्ववत् । तकारो वर्णनिर्देशार्थः । अन्यथा [समरीता, समरिता] 'ऋश गतौ' (१५३९) ऋ, समपूर्व० । श्वस्तनी ता । इट । अनेन वा दीर्घः । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । ऋणातेरेव विज्ञायेत । [ववरिथ] 'वृऍट् वरणे' (१२९४) वृ । परोक्षा थव् । 'द्विर्धातुः परोक्षा-डे प्राक्०' (४।१।१) द्विः । 'ऋतोऽत्' (४११३८) ऋ०→अ० । 'स्क्रसृ-वृ-भृ-स्तु-दु-श्रु-स्रोर्व्यञ्जनादे: परोक्षायाः' (४।४८१) इट । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । . [तेरिथ] 'तू प्लवन-तरणयोः' (२७) तृ । परोक्षा थव् । 'स्क्रसृ-वृ-भू-स्तु-दु-श्रु-स्रोर्व्यञ्जनादेः परोक्षायाः' (४।४।८१) इट् । 'नामिनो गुणोऽक्ङिति' (४।३।१) गु० अर् । 'तू-त्रप-फल-भजाम्' (४/११२५) ए । [प्रावरिषीष्ट] वृ, प्र-आयूर्व० । आशीः सीष्ट । ‘इट् सिजाशिषोरात्मने' (४।४।३६) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । [आस्तरिषीष्ट] ‘स्तृग्श् आच्छादने' (१५२१) स्तृ, आयूर्व० । आशीः सीष्ट । इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । {प्रावारिष्टाम्] प्र-आ, वृ । अद्यतनी ताम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट । 'सिचि परस्मै समानस्याऽडिति' (४।३।४४) वृ० आर् | 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [प्रावारिषुः] प्र-आ, वृ । अद्यतनी अन् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'स्ताधशितोऽत्रोणादेरिट' (४।४।३२) इट् । 'सिचि परस्मै समानस्याऽडिति' (४।३।४४) वृ० आर् । 'सिज्-विदोऽभुवः' (४।२।९२) अन्० → पुस्० → उस्० । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । [आस्तारिष्टाम्] स्तृ, आङ्पूर्व० । अद्यतनी ताम् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । इट् । 'सिचि परस्मै०' Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy