________________
२४४
एत्यस्तेर्वृद्धिः || ४|४|३०||
[ एत्यस्ते:] एतिश्च अस्तिश्च = एत्यस्तिस्तस्य ।
[वृद्धिः ] वृद्धि प्रथमा सि ।
[आयन्] 'इंण्क् गतौ' (१०७५) इ । हास्तनी अन् । अनेन वृद्धिः ऐ । 'एदैतोऽयाय्' (१।२।२३) आय् ।
[ अध्यायन् ] 'इंक् स्मरणे' (१०७४) इ, अधिपूर्व० । ह्यस्तनी अन् । अनेन वृद्धिः ऐ । 'एदैतोऽयाय्' (१।२।२३)
आय् ।
[आस्ताम् ] 'असक् भवे(भुवि ) ' (११०२) अस् । ह्यस्तनी ताम् । अनेन वृ० आ ।
[ आसन्] अस् । ह्यस्तनी अन् । अनेन वृ० आ ।
[ मा स्म भवन्तो यन् ] मा स्म भवत् प्रथमा जस् । इ । ह्यस्तनी अन् । 'हिणोरप्विति व्-यौ' (४।३।१५) यत्वम् ।
[मा स्म भवन्तः सन्] मा स्म भवत् प्रथमा जस् । अस् । ह्यस्तनी अन् । 'श्ना- ऽस्त्योर्लुक्' (४।२।९० ) अलुक् ।
[ऐयरुः] 'ऋक् गलौ' (११३५ ) ऋ । ह्यस्तनी अन् । 'हवः शिति' (४।१।१२) “ऋ'द्विः । 'ऋतोऽत्' (४।११३८ ) ऋ० अ० । 'पृ-भृ-मा- हाङयमिः' (४।१।५८) इ । 'पूर्वस्याऽस्वे स्वरे योरियुब्' (४।१।३७ ) इय् । 'द्व्युक्त - जक्षपञ्चतः ' (४।२।९३) अन्० पुस्० । अनेन वृ० ऐ। गु० अर् ।
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्डिका ।
[ अध्यैयत ] इ, अधिपूर्व० । ह्यस्तनी अन्त । इय् । 'अनतोऽन्तोऽदात्मने' (४।२।११४) अन्त० → अत० । अनेन
वृ० ऐ ।
[ अध्ययन] इ, अधिपूर्व० । ह्यस्तनी अन् । इय् । 'स्वरादेस्तासु' (४|४|३१) वृ० ऐ । छ । ।
स्वरादेस्तासु ||४|४|३१ ॥
[ स्वरादेः ] स्वर आदिर्यस्य सः = स्वरादिः, तस्य ।
[तासु ] तद् । सप्तमी सुप् । 'आ द्वेर : ' (२।१।४१) ५० अ० । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । 'आत्' (२।४।१८) आपप्र० → आ ।
P. एत्यस्ति ।
[आटीत्] 'अट गतौ' (१९४) अट् । अद्यतनी दि→ त् । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दिस्यो:' ( ४ | ३ |६५ ) ईत् । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । 'इट ईति' (४।३।७१) सिच्लुक् । अनेन वृद्धिः ।
Jain Education International
[आशीत् ] 'अशश् भोजने' (१५५८) अश् । अद्यतनी दित् । 'सिजद्यतन्याम् ' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्यो:' ( ४ | ३ |६५ ) ईत् । इट् । 'इट ईति' (४।३।७१) सिच्लुक् । अनेन वृद्धिः ।
[आटिष्यत्] अट् । क्रियातिपत्तिः स्यत् । इट् । अनेन वृद्धिः ।
[ आशिष्यत् ] अश् । क्रियातिपत्तिः स्यत् । इट् । अनेन वृद्धिः ।
[आत्] अट् । ह्यस्तनी दिव्त् । कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । अनेन वृ० आ ।
For Private & Personal Use Only
www.jainelibrary.org