SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ २४३ [अध्यगीष्येताम, अध्यैष्येताम्] इ, अधिपूर्व० । क्रियातिपत्तिः स्येताम् । अनेन इ० → “गी" आदेशः - गी० । 'अड् धातोरादि०' (४।४।२९) अट् । पक्षे 'स्वरादेस्तासु' (४।४।३१) वृ० ऐ । [अध्यगीष्यन्त, अध्यैष्यन्त इ, अधिपूर्व० । क्रियातिपत्तिः स्यन्त । अनेन इ० → “गी" आदेशः → गी०। 'अड् धातोरादि०' (४।४।२९) अट् । पक्षे 'स्वरादेस्तासु' (४।४।३१) वृ० ऐ । कारो गुणनिषेधार्थम् ।।छ।। ___ अड् धातोरादिय॑स्तन्यां चाऽमाङा ।।४।४।२९।। [अट्] अट् प्रथमा सि । [धातोः] धातु षष्ठ ङस् । [आदिः] आदि प्रथमा सि । [यस्तन्याम्] हस्तनी सप्तमी ङि । 'स्त्रीदूतः' (१।४।२९) ङि → दाम् → आम् । [च] च प्रथमा सि । [अमाडा] न माङ् = अमाङ्, तेन । [अकरोत्] 'डुकुंग करणे' (८८८) कृ । हस्तनी दिव् → त् । 'कृग्-तनादेरुः' (३।४।८३) उप्र० । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'उ-श्नोः' (४।३।२) गु० ओ । अनेन अट् । [अकार्षीत्] कृ । अद्यतनी दि →त् । 'सिजद्यतन्याम्' (३।४।५३) सिच् । 'सः सिजस्तेर्दि-स्योः' (४।३।६५) ईत् । 'सिचि परस्मै समानस्याऽडिति' (४।३१४४) वृ० आर । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । अनेन अट् । [अकरिष्यत्] कृ । क्रियातिपत्तिः स्यत् । 'हनृतः स्यस्य' (४।४।४९) इट् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० अर् । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । अनेन अट् । विषयविज्ञानात् प्रत्ययव्यवधानेऽपि भवति, परविज्ञाने हि [अहन्] ‘हनं हिंसा-गत्योः ' (११००) हन् । हास्तनी दिव् → त् । अट् । 'व्यञ्जनाद् दे: सश्च दः' (४।३।७८) दिलोप इत्यादावेव स्यात् । [अस्मद्विना मा भृशमुन्मनी भूः] अस्मद् पञ्चमी डसि । 'ङसेश्चाऽद्' (२१११९) सि० → अ० । 'शेषे लुक' (२०१८) द्लुक् । 'लुगस्यादेत्यपदे' (२।१११३) अलोपः । विना प्रथमा सि । 'अव्ययस्य' (३।२७) सिलुप् । मा भृशं प्रथमा सि । उत्-मनस् । उद्गतं मनो यस्याऽसौ उन्मनाः । अनुन्मना उन्मना भूः = उन्मनी भूः । 'कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यां प्रागतत्तत्त्वे च्विः' (७।२।१२६) च्चिप्र० । 'अरुर्मनश्चक्षुश्चेतो-रहो-रजसां लुक च्चौ' (७।२।१२७) इत्यनेन सलुक् । 'ईश्च्चावर्णस्या-ऽनव्ययस्य' (४।३।१११) अ० → ई० । 'अप्रयोगीत' (१1१1३७) विलोपः । अद्यतनी सि । “सिजद्यतन्याम्' (३।४।५३) सिच् । 'पिबैति-दा-भू०' (४।३।६६) सिचलुप् । 'सो रुः' (२११७२) स० → र० । 'रः पदान्ते०' (१३५३) विसर्गः । - [प्राकरोत्] प्रपूर्वकोऽकरोत् ।।छ।। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy