SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २३४ श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका । [प्रशम्य] 'शमू उपशमे' (१२३०) शम्, प्रपूर्व० | प्रशमनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् । अत्र ‘अहन्पञ्चमस्य क्वि-क्डिति' (४।१।१०७) इति दीर्घत्वं यवादेशे बाधते । [प्रपृच्छय] 'प्रछंत् ज्ञीप्सायाम्' (१३४७) प्रछ्, प्रपूर्व० । प्रकर्षेण प्रच्छनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनञः क्त्वो यप्' (३।२।१५४) यप् । 'अनुनासिके च च्छ्-वः शूट' (४।१।१०८) छ० → श०, अन्तरङ्गमपि बाधित्वा यप भवति । ‘ग्रह-वस्च०' (४।१1८४) खत । [प्रदीव्य] 'दिवूच क्रीडा-जयेच्छा-पणि-द्युति-स्तुति-गतिपु' (११४४) दिव, प्रपूर्व० । प्रदेवनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनुनासिके च च्छ्-वः शूट' (४।१।१०८) व० → ऊट० अन्तरङ्गमपि वाधित्वा यप् भवति । "भवादे मिनो० । (२।१।६३) दीर्घत्वम् । [प्रखन्य] ‘खनूग् अवदारणे' (९१३) खन्, प्रपूर्व० । प्रखननं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'आः खनि-सनि-जनः' (४।२।६०) इत्यनेन आत्वमन्तरङ्गं वाधित्वा यप् । [प्रस्थाय] 'ष्ठ गतिनिवृत्तौ' (५) ष्ठा । 'पः सोऽष्ट्यै०' (२१३९८) स्था । 'निमित्ताभावे०' (न्या० सं० वक्षस्कार(१)/सूत्र (२९)) स्था, प्रपूर्व० । प्रस्थानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । ‘दो-सो-मा-स्थ इ.' (४।४।११) आ० → इत्वमन्तरङ्गमपि वाधित्वा यप् । [प्रपाय] 'पां पाने' (२) पा, प्रपूर्व० । प्रपानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'ईर्व्यञ्जनेऽयपि' (४।३।९७) आ० → ईत्वमन्तरङ्गमपि वाधित्वा यप् । [प्रदाय] 'डुदांग्क् दाने' (११३८) दा, प्रपूर्वम् । प्रदानं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'ईर्व्यञ्जनेऽयपि' (४।३।९७) आ० → ईत्वमन्तरङ्गमपि वाधित्वा यप् । [प्रधाय] 'डुधांग्क् धारणे च' (११३९) धा, प्रपूर्व० । प्रधानं पूर्वम् । ‘प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'धागः' (४।४।१५) इत्यनेन हित्वं वाधित्वा यप् । [प्रपठ्य] ‘पठ व्यक्तायां वाचि' (२१३) पठ्, प्रपूर्व० । प्रपठनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट्त्वं बाधित्वा यप् ॥छ।। घस्लु सनद्यतनी-घञचलि ||४।४।१७।। [घस्नु] घस्लृ प्रथमा सि । सूत्रत्वात् लुप् । [सनद्यतनीघञचलि] सन् च अद्यतनी च घञ् च अच्च अल् च = सनद्यतनीघञचल्, तस्मिन् । [जिघत्सति] 'अदं भक्षणे' (१०५९) अद् । अत्तुमिच्छति । 'तुमर्हादिच्छायां०' (३।४।२१) सन्प० । अनेन अद्० "घस्नु''आदेशः → घस् । ‘सन्-यङश्च' (४।१।३) “घस्'द्विः । 'व्यअनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तर्ययोः पूर्वी' (४।१।४२) घ० → ग० । 'ग-होर्जः' (४।१।४०) ग० ज० । 'सन्यस्य' (४११५९) इ । सि' (४।३।९२) स० → त० । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः । .. [अघसत्] अद् । अद्यतनी दि → त् । अनेन "घस्तृ"आदेशः → घस् । 'लदिद्-धुतादि-पुष्यादेः परस्मै' (३।४।६४) अड्म० → अ । 'अड् धातोरादि०' (४।४।२९) अट् । Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy