________________
अथ चतुर्थाध्यायस्य चतुर्थः पाद: ॥
२३३
'ईर्व्यअनेऽयपि' (४।३।९७) आ० → ई०, मतान्तरेऽमी प्रयोगाः (निर्दादत्तः, निर्दादत्तवान्, अवसासीतः, अवसासीतवान, जाहातः, जाहातवान्, दाधीतः, दाधीतवान्) निःपद्यते(न्ते) ।।छ।।
यपि चाऽदो जग्ध ।।४।४।१६।।
[यपि] यप् सप्तमी ङि । [च] च प्रथमा सि । [अदः] अद् षष्ठी ङस् । [जग्ध्] जग्ध् प्रथमा सि ।
[जग्धः] 'अदं भक्षणे' (१०५९) अद् । अद्यते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० → त । अनेन अद् → जग्ध० । 'अधश्चतुर्थात् तथोर्धः' (२।१७९) त० → ध० । ['तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० ?] ('धुटो धुटि स्वे वा' (१।३।४८) धलुक्) ।
[जग्धवान] अद् । अत्ति स्म । 'क्त-क्तवतू' (५1१1१७४) क्तवतुप्र० → तवत् । अनेन अद् → जग्ध० । 'अधश्चतुर्थात् तथोर्धः' (२।१९७९) त० → ध० । ['तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द०?] ('धुटो धुटि स्वे वा' (१।३।४८) धलुक्) ।
[जग्ध्वा ] अद् । अदनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । अनेन अद्० → जग्ध० । 'अधश्चतुर्थात् तथोर्धः' (२।१।७९) त० → ध० । [तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० ?'] ('धुटो धुटि स्वे वा' (१।३।४८) धलुक् ।
[जग्धिः ] अद् । अदनं = जग्धिः । 'स्त्रियां क्तिः' (५।३।९१) क्तिप्र० → ति । अनेन अद्० → जग्ध० । 'अधश्चतुर्थात् तथोर्धः' (२।१।७९) त० → ध० । ['तृतीयस्तृतीय-चतुर्थे' (१।३।४९) ध० → द० ? 1] ('धुटो धुटि स्वे वा' (१३१४८) धलुक) ।
[प्रजग्ध्य] प्रादनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यप्' (३।२।१५४) यप् → य । अनेन “जग्ध्" आदेशः ।
- [विजग्ध्य] विशेषेणाऽदनं पूर्वम् । 'प्राक्काले' (५।४।४७) क्त्वाप्र० → त्वा । 'अनञः क्त्वो यम्' (३।२।१५४) यप् →य । अनेन “जग्ध" आदेशः ।
[अदनम्] अद्यते = अदनम् । ‘अनट्' (५।३।१२४) अनट्प्र० → अन । [अद्यात्] अद् । आशीः क्यात् → यात् ।
[अत्तव्यम अद्यते = अत्तव्यम् । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । 'अघोषे प्रथमोऽशिटः' (११३५०) द० → त० । सि-अम् ।
[अन्नम्] 'अन प्राणने' (१०८९) अन् । अन्यते = अन्नम् । 'प्या-धा-पन्यनि-स्वदि-स्वपि-वस्यज्यति-सिविभ्यो नः' (उणा० २५८) नप० । 'अदोऽनन्नात्' (५।११५०) इति ज्ञापकाद्वा 'अदं भक्षणे' (१०५९) अद् । अद्यते = अन्नम् । 'ज्ञानेच्छाऽर्चाऽर्थ-जीच्छील्यादिभ्यः क्तः' (५।२।९२) क्तप्र० →त । 'रदादमूर्छ-मद: क्तयोर्दस्य च' (४।२।६९) द-त० → न० । सि-अम् ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org