________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका दुण्ढिका ।
AN
→ आ० । 'अर्ति-री-व्ली-ही०' (४।२।२१) पोऽन्तः । वर्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव । 'नामिनो गणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय ।
[अध्यापयति] 'इंडूक् अध्ययने' (११०४) इ, अधिपूर्व० । अधीयानं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप्र० । अनेन इ० → आ० । 'अर्त्ति-री-व्ली-ही-क्नूयि०' (४।२।२१) पोऽन्तः । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव' (३।४७१) शव । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय छ।।
सिध्यतेरज्ञाने ||४२११।।
[सिध्यतेः] सिध्यति षष्ठी डस् । [अज्ञाने] न ज्ञानमज्ञानम्, तस्मिन् ।
[मन्त्रं साधयति] 'षिधूंच् संराद्धौ' (११८५) षिध् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सिध् । सिध्यन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । अनेन इ० → आ० । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति (४।३।१) ए । 'एदैतोऽयाय्' (१।२।२३) अय् ।
अन्नं साधयति साधर्मिकेभ्यो दातुम] 'समानो धर्मः = सधर्मः । 'समानस्य धर्माऽऽदिषु' । (३।२।१४९) समान० → सभावः । सधर्मः प्रयोजनमेषाम् । 'प्रयोजनम्' (६।४।११७) इकण्प्र० । 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धि: आ । यदा समानो धर्मोऽस्येति बहुव्रीहौ(हिः) तदा 'द्विपदाद् धर्मादन्' (७।३।१४१) अन् स्यात् ।
[तपस्तपस्विनं सेधयति] तपस् । प्रथमा सि । 'अनतो लुप्' (१।४।५९) सिलुप् । तपस् । तपोऽस्याऽस्तीति तापसः । 'ज्योत्सादिभ्योऽण' (७।२।३४) अणप्र० → अ। 'वृद्धिः स्वरेष्वादेणिति तद्धिते' (७।४।१) वृद्धिः आ । यद्वा तपोऽस्याऽस्तीति । 'अस्-तपो-माया-मेधा-सजो विन्' (७।२।४७) विन्प्र० । प्रथमा सि । 'इन्-हन्-पूषाऽर्यम्णः शिस्योः ' (१।४।८७) दीर्घः । 'दीर्घड्याव्०' (१।४।४५) सिलुक् । 'नाम्नो नोऽनह्नः' (२।१।९१) नलुक् । सिध् । सिध्यन्तं प्रयुक्ते । 'प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प्र० । ‘लघोरुपान्त्यस्य' (४।३।४) गु० ए | सिध्यति-जानीते तपस्वी ज्ञानविशेषमासादयति तं तपः प्रयुक्ते इत्यर्थः ।
[स्वान्येवैनं कर्माणि सेधयन्ति] स्वान्येवैनं कर्माणि सेधयति(न्ति), अस्य अनुभवविशेषमुत्पादयती(न्ती)त्यर्थः । अनुभवः = साक्षात्कारः, स च ज्ञानमेव ।
. [अन्नं सेधयति] अन्न द्वितीया अम् । 'षिधू गत्याम्' (३२०) षिध् । 'षः सोऽष्ट्यै-ष्ठिव-ष्वष्कः' (२।३।९८) सिध् । सेधन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिग्प० । लघोरुपान्त्यस्य' (४।३।४) गु० ए । वर्त्तः तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय' (१।२।२३) अय् ॥छ।।
चि-स्फुरोर्नवा ।।४।२।१२।। [चिस्फुरोः] चिश्च स्फुर् च = चिस्फुरौ, तयोः = चिस्फुरोः, षष्ठी ओस् । [नवा] नवा प्रथमा सि ।
[चापयति, चाययति] 'चिंट चयने' (१२९०) चि । चिन्वन्तं प्रयुक्ते । ‘प्रयोक्तृव्यापारे णिग्' (३।४।२०) णिगप० । अनेन वा इ० → आ० । 'अर्त्ति-री-व्ली-ही-क्नूयि-क्ष्माय्यातां पुः' (४।२।२१) पोऽन्तः । पक्षे 'नामिनोऽकलि-हलेः' (४।३५१)
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org