SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥ [ विलास्यति, विलेष्यति ] 'लींश् श् लेषणे' (१५२६) ली, विपूर्व० । भविष्यन्ती स्यति । : [व्यलासीत्, व्यलैषीत्] ली, विपूर्व० । अद्यतनी दि स्यो:' (४।३।६५) ईत् ई । अनेन वा सर्वत्र ई० [ईषद्विलयः] ईषत् ली, विपूर्व० । ईषदनायासेन विलीयते । 'दुः स्वीषतः कृच्छ्रा० (५|३|१३९) खल्प्र० अ । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । तू । 'सिजद्यतन्याम्' ( ३।४।५३) सिच् । 'सः सिजस्तेर्दिआ० । अड् धातोरादि० ' ( ४।४।२९) अट् । [विलयः] विलीयते विलिनाति वा विलयः । 'अच्' (५।१।४९ ) अच्प्र० → अ । गुणे सति एदैतोऽयाय्' (१।२।२३) अय् । → न० । ७ [ विलयो वर्त्तते] विलयनं = विलयः । 'युवर्ण-वृ-दृ-वश-रण-गमृद्-ग्रहः' (५।३।२८) अल्प्र० । गुणे सति 'एदैतोऽयाय् ' (१।२।२३) अय् । [लीनः ] लीयते स्म । 'क्त-क्तवतू' (५।१।१७४) क्तप्र० [ विलीनः ] विलिनाति स्म । 'क्तक्तवतू' (५।१।१७४) क्तप्र० त । 'सूयत्याद्योदितः' (४।२३७०) त० न० । त । 'ऋ- ल्वादेरेषां तो नोऽप्रः' (४।२।६८) ० [लीयते] ली । वर्त्त० ते । 'क्यः शिति' (३।४।७०) क्यप्र०य । [लेलीयते] भृशं पुनः पुनर्वा लीयते । 'व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा' ( ३।४।९) यप्र० । 'सन्-यडञ्च' (४।१।३) "ली द्विः । ' ह्रस्वः ' ( ४|१|३९ ) ह्रस्वः । 'आ-गुणावन्यादेः ' ( ४।१।४८ ) गु० ए । वर्त्त० ते । [लिनाति] ली । वर्त्त० तिव् । 'क्र्यादेः' (३।४।७९) श्नाप्र० ना । 'प्वादेईस्वः' (४।२।१०५) ह्रस्वः । डिल्लुप्ततिवो निर्देशाद्यड्लुपि न भवति [लेलेति] भृशं पुनः पुनर्वा लिनाति लीयते वा । 'व्यञ्जनादेरेकस्वराद्०' ( ३।४।९ ) य० । 'सन् - यश्च' (४।१।३) ‘“ली’द्विः । ‘ह्रस्वः' (४।१।३९) ह्रस्वः । ' आ-गुणावन्यादेः' (४।१।४८) गु० ए । 'बहुलं लुप्' (३|४|१४) यङ्लुप् । ‘नामिनो गुणोऽक्डिति' (४१३।१) गु० ए । Jain Education International [विलयति] ‘लीण् द्रवीकरणे' (१९४२) ली, विपूर्व० । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । ‘नामिनो गुणोऽक्ति' ( ४ | ३ |१) ग० ए । 'एदैतोऽयाय्' (१।२।२३) अय् । यौजादिकस्य न भवति आत्त्वम् ||छ|| णौ क्री-जीङः ॥४ ॥२॥१०॥ [णौ ] णि सप्तमी ङि । [क्रीजीङ: ] क्रीश्च जिश्च इङ् च = क्रीजीङ्, तस्य । [क्रापयति] 'डुक्रींग्श् द्रव्यविनिमये' (१५०८) क्री । क्रीणन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२०) णिग्प्र० । अनेन ई० → आ० । अर्त्ति-री-व्ली - ह्री क्नूयि - क्ष्माय्यातां पुः' (४।२।२१ ) पोऽन्तः । वर्त्त० तिव् । 'कर्त्तर्यनद्भ्यः शव्' (३।४।७१) शव् । ‘नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'एदैतोऽयाय् ' (१।२।२३) अय् । [जापयति] 'जिं अभिभवे' (८) जि । जयन्तं प्रयुङ्क्ते । 'प्रयोक्तृव्यापारे णिग्' ( ३।४।२० ) णिग्प्र० । अनेन इ० For Private & Personal Use Only www.jainelibrary.org
SR No.003294
Book TitleSiddha Hemchandra Shabdanushasane Agyat kartuka Dhundika Part 04
Original Sutra AuthorN/A
AuthorVimalkirtivijay
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2011
Total Pages408
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy