________________
श्रीसिद्धहेमचन्द्रशब्दानुशासने अज्ञातकर्तृका ढुण्ढिका ।
२२२
[क्शांग्ख्यांग्] क्शांग् च ख्यांग च = + क्शांग्ख्यांग्, प्रथमा सि । अनुस्वारेदिडभावार्थः ।
[आक्शाता, आखशाता, आख्याता] 'चक्षिक व्यक्तायां वाचि' (११२२) चक्ष, आपूर्व० । अनेन "क्शांग"आदेशे कृते श्वस्तनी ता । द्वितीये तु 'शिट्याद्यस्य द्वितीयो वा' (१९३५९) ककारस्य खकारः । तृतीये 'ख्यांग"आदेशोऽनेन, श्वस्तनी ता ।
[आक्शास्यति, आखशास्यति, आख्यास्यति] चक्षु, आड्यूर्व० । अनेन "क्शांग"-"ख्यांग"आदेशे कृते भविष्यन्ती स्यति । द्वितीये तु 'शिट्याद्यस्य द्वितीयो वा' (१३५९) क० → ख० ।
[आक्शास्यते, आख्शास्यते, आख्यास्यते] चक्ष, आड्यूर्व० । अनेन 'क्शांग" - "ख्यांग''आदेशे कृते भविष्यन्ती स्यते । द्वितीये तु 'शिट्याद्यस्य द्वितीयो वा' (१।३।५९) क० → ख० ।
[आक्शेयात्, आक्शायात्, आख्शेयात्, आख्शायात्, आख्येयात्, आख्यायात् चक्ष, आयूर्व० । अनेन “क्शांग्" ४ आदेशः, "ख्यांग्" २ आदेशः । आशीः क्यात् → यात् । प्रथमे-तृतीये-पञ्चमे च 'संयोगाऽऽदेर्वाऽऽशिष्येः' (४।३।९५) एत्वम् । तृतीये-चतुर्थे तु 'शिट्याद्यस्य द्वितीयो वा' (१३५९) क० → ख० ।।
[आचाक्शायते, आचाख्यायते] चक्ष्, आङ्यूर्व० । भृशं पुनः पुनर्वा आचष्टे । 'व्यञ्जनादेरेकस्वराद् भृशाऽऽभीक्ष्ण्ये यङ् वा' (३।४।९) यङ्म०, पूर्वमनेन 'क्शांग्" - "ख्यांग्" आदेशस्ततो यड्स० । द्वि: । 'व्यञ्जनस्याऽनादेर्लुक्' (४।१।४४) अनादिव्यञ्जनलोपः । 'द्वितीय-तुर्ययोः पूर्वी' (४।१।४२) ख० → क० । 'क-डश्च-ञ्' (४।१।४६) क० → च० । 'हस्वः ' (४।१।३९) ह्रस्वः । 'आ-गुणावन्यादेः' (४।१।४८) आ । वर्त्त० ते । 'कर्त्तर्यनद्भ्यः शव' (३।४।७१) शव । 'लुगस्यादेत्यपदे' (२११११३) अलोपः ।
[आक्शातव्यम्, आख्यातव्यम्] चक्ष्, आड्पूर्व० । आख्यायते = आकशातव्यम्, आख्यातव्यम् । अनेन "क्शांग" -- "ख्यांग्" आदेशः । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । सि-अम् ।
[आक्शेयम्, आख्येयम्] आख्यायते = आक्शेयम्-आख्येयम् । अनेन “क्शांग्" - "ख्यांग्" आदेशः । ‘य एच्चातः' (५।१।२८) यप्र०, आ० → ए० । सि-अम् ।
बोधे- [विचक्षणः] वि-चक्ष । विविधं चष्टे = विचक्षणः । 'नन्द्यादिभ्योऽनः' (५।१।५२) अनप्र० । 'तृ-कृ-शपृ-भृ-वृ-श्रु-रुहि-रु-लक्षि-विचक्षि-चुक्कि-बुक्कि-तगयङ्गि-मङ्कि-कङ्कि-चरि-समीरेरणः' (उणा० १८७) अणो वा । 'स्व र्णान्नो ण०' (२।३।६३) न० → ण० । प्रथमा सि । 'सो रुः' (२।१।७२) स० → र० । 'रः पदान्ते विसर्गस्तयोः' (१।३।५३) विसर्गः ।
[चक्षुः] चक्षु । चष्टे = दर्शनेन वस्तुं जानातीति चक्षुः । 'चक्षेः शिद्वा' (उणा० १००१) उस्प० । वर्जनेऽर्थे [संचक्ष्यते] चक्ष, सम्पूर्व० ।
[अवसंचक्ष्याः] चक्ष्, अव-सम्पूर्व० । अवसंचक्षन्ते(ते) = अवसंचक्ष्याः । 'ऋवर्ण-व्यञ्जनाद् घ्यण' (५।१।१७) घ्यणप्र० → य ।
[परिसंचक्ष्या दुर्जनाः] चक्ष्, परि-सम्पूर्व० । परिसंचक्षन्ते(ते) = परिसंचक्ष्याः । 'ऋवर्ण-व्यञ्जनाद् घ्यण्' (५।१।१७)
P. + क्शांग्ख्यांगौ । P. विख्यायतेऽनेनेति विचक्षणः । 'करणा-5ऽधारे' (५।३।१२९) अनट्प्र० → अन ।
Jain Education Intemational
For Private & Personal use only
For Private & Personal Use Only
www.jainelibrary.org