________________
२२१
अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ उपान्त्यवृद्धिः आ ।
[समज्या] समजनं = समज्या । 'समज-निपत्-निषद्-शीङ-सुग्-विदि-चरि-मनीणः' (५।३।९९) क्यप्प्र० → य । 'आत्' (२।४।१८) आप्प्र० → आ ।
[समजः पशूनाम्] समजनं = समजः । ‘समुदोऽजः पशौ' (५।३।३०) अल्प० → अ । [उदजः पशूनाम्] उदजनं = उदजः । ‘समुदोऽजः पशौ' (५।३।३०) अल्प० → अ । [अजः] अजतीत्यजः । 'अच्' (५/११४९) अच्प्र० → अ । [अजा] अजतीत्यजा । ‘अच्' (५।१।४९) अच्प्र० → अ । ‘आत्' (२।४।१८) आप्प० → आ ||छ।।
त्रने वा ||४|४३॥
[त्रने] ता च अनश्च = त्रनम्, तस्मिन् । [वा] वा प्रथमा सि ।
[प्रवेता, प्राजिता] 'अज क्षेपणे च' (१३९) अज, प्रपूर्व० । प्राजतीति प्रवेता । ‘णक-तृचौ' (५।१।४८) तृचप्र० →तृ । अनेन वा “वी''आदेशः । 'नामिनो गुणोऽक्डिति' (४।३।१) गु० ए । 'स्ताद्यशितोऽत्रोणादेरिट्' (४।४।३२) इट् । प्रथमा सि । 'ऋदुशनस-पुरुदंशोऽनेहसश्च सेर्डाः' (१।४।८४) सि०→ डा० । 'डित्यन्त्यस्वरादेः' (२।१।११४) अन्त्यस्वरादिलोपः ।
[प्रवयणो दण्डः, प्राजनो दण्डः] प्रवीयतेऽनेनेति प्रवयणः । ‘करणा-ऽऽधारे (५।३।१२९) अनट्प्र० । अनेन वा "वी"आदेशः । गुणे सति 'एदैतोऽयाय' (१।२।२३) अय् । प्रथमा सि । दण्ड प्रथमा सि ।
प्रवेष्यति, प्राजिष्यति प्र-अज । अनेन वा “वी"आदेशः । भविष्यन्ती स्यति । प्रथमे गुणः । पक्षे 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् ।
[प्रविवीषति, प्राजिजिषति] प्रवेतुमिच्छति । 'तुमर्हादिच्छायां सन्नतत्सनः' (३।४।२१) सन्प्रत्ययात् प्रथमेऽनेन वी० । 'सन्-यडश्च' (४।१।३) “वी''द्विः । 'हूस्वः' (४।१३९) ह्रस्वः । द्वितीये इट् । 'लोकात्' (१1१1३) "अ" पाठठ विश्लेषियइ । 'स्वराऽऽदेर्द्वितीयः' (४191४) द्विः । 'नाम्यन्तस्था०' (२।३।१५) षत्वम् । वर्त्त तिव् । 'कर्तर्यनद्भ्यः शव' (३।४।७१) शव् । 'लुगस्यादेत्यपदे' (२।१।११३) अलोपः ।
[प्रवेतव्यम्, प्राजितव्यम्] प्रवीयते । मतान्तरेऽनेन वा “वी"आदेशः । 'तव्या-ऽनीयौ' (५।१।२७) तव्यप्र० । गुणः । 'स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् ।
[प्रवेतुम्, प्राजितुम्] प्राजनाय = प्रवेतुम् । ‘क्रियायां क्रियार्थायां तुम् णकच् भविष्यन्ती' (५।३।१३) तुम्प्र० । गुणः । ‘स्ताद्यशितोऽत्रोणादेरिट' (४।४।३२) इट् ।।छ।।
चक्षो वाचि क्शांग-ख्यांग ।।४।४।४।।
[चक्षः] चक्ष षष्ठी ङस् । [वाचि] वाच् सप्तमी ङि ।
P.' तृश्च ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org